________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ कृदन्तकृत्यप्रकरणम् // 2829 / धातोः / (3-1-91) आ तृतीयसमातेरधिकारोऽयम / 'तत्रोपपदं सप्तमीस्थम् / (सू 781) / 'कृदतिङ्' (सू 374) / | 2830 / वाऽसरूपोऽस्त्रियाम् / (3-1-94) / परिभाषेयम्। अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय: उत्सर्गस्य बाधको वा स्यात्स्त्रयधिकारोक्तं विना / ___ अथ कृदन्तप्रक्रियाः निरूप्यन्ते। तदेवं "प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः" इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययषु प्रथमपादे 'प्रत्ययः, परश्च' इत्यारभ्य 'कुषिरञ्जोः प्राचां श्यन्' इत्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः। अथ तदुत्तरसूत्रविहितान् निरूपयितुमुपक्रमते। धातोः // आ तृतीयेति // आ तृतीयाध्यायपरिसमाप्तरित्यर्थः / एतच्च भाध्य स्पष्टम् / तत्रोपपदं सप्तमीस्थम् इति / कृदतिङ् इति // व्याख्यातं प्राक् / वाऽसरूपोऽस्त्रियाम् // असरूपः इति छदः / परिभाषेयमिति // अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः / असरूपः इति लिङ्गनिर्देशः / यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते / वेत्यतः प्राक् बाधकः इति शेषः / असरूपो बाधको भवतीति यावत् / कस्य बाधको वेत्याकांक्षायाम् उत्सर्गस्येत्याल्लभ्यते / फलितमाह / अस्मिन् धात्वधिकारे ३त्यादिना // स्त्रीशब्दः स्वर्यते। तदाह / स्त्रयधिकारोक्तं विनेति // 'स्त्रियां क्तिन्' इति वक्ष्यमाणत्रयधिकारस्थमपवादं विनेत्यर्थः। स्त्रयधिकारस्तु असरूपः प्रत्ययः उत्सर्गस्य नित्यमेव बाधक इति भावः / ‘ण्वुल्तृचौ ' इत्युत्सर्गः। 'इगुपधज्ञाप्रीकिरः कः' इत्यपवादः / तद्विषये ण्वुल्तृचावपि भवतः / विक्षेपकः / विक्षेप्ता / विक्षिपः / असरूप इति किम् / 'कर्मण्यण' उत्सर्गः / 'आतोऽनुपसर्गे कः' इत्यपवादः / स तु सरूपत्वानित्यं बाधक एव / गोदः / कम्ब. लदः / 'नानुवन्धकृतमसारूप्यम्' इति वचनात् अनुबन्धो न सारूप्यप्रतिबन्धकः / अस्त्रियां किम् / 'स्त्रियां क्तिन्' इत्युत्सर्गः। 'अ प्रत्ययात्' इति प्रत्ययान्ताद्विहितः अकारप्रत्ययः तस्य अपवादः। स बाधक एव भवति। चिकीर्षा। व्यावकोशी / व्याक्रुष्टिः इत्यत्र तु 'कर्मव्यतिहारे णच स्त्रियाम्' इति णच क्तिनो बाधको वा भवत्येव / अस्त्रियामिति निषेधस्तु नास्ति / तस्य णचः स्त्रियामित्यधिकारो For Private And Personal Use Only