________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 574 सिद्धान्तकौमुदीसहिता भ्रममूलकमेव / द्वितीयसूत्रे क्रियासमभिहारे इत्यस्याननुवृत्तेः। लोडन्तस्य द्वित्वापत्तेश्च / पुरीमवस्कन्देत्यादि मध्यमपुरुषकवचनमित्यपि केषांचिद्धम एव / पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् / इति लकारार्थप्रकरणम् / इति // अननुवृत्तेरिति // भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः / तदनुवृत्त्यभ्युपगमे बाधकमाह / लोडन्तस्येति // ‘समुच्चयेऽन्यतरस्याम्' इति सूत्रे क्रियासमभिहारे इत्यनुवृत्ती अवस्कन्देत्यादिलोडन्तानां 'क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वापत्तरित्यर्थः। भ्रम एवेति // मध्यमपुरुषांशे एकवचनांशे च भ्रम एवेत्यर्थः / कुत इत्यत आह / पुरुषवचनसंझे इह नेत्युः तत्वादिति // अत्र भाष्ये 'हिखान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तये अनुप्रयोगस्यन्यायत एव प्राप्तत्वादनुप्रयोगविधिर्मास्तु' इत्युक्तम् / एवञ्च ‘तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्' इति श्रुतौ 'समुच्चयेऽन्यतरस्य.म्' इतिलोटो हिस्वावेव भवतः, न त्वनुप्रयोगः / तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याका लाभिव्यक्तेरविवक्षितत्वेन तत्रानुप्रयोगस्य प्रयोजनाभावात् / एतेन 'आ च सत्यलोकादाचावीचेर्जायस्व म्रियस्व' इति विपरिवर्तमानमात्मानं जीवलोकञ्चालोक्यास्मिन् संसारे नित्याशुचिदुःखात्मकम्प्रसङ्ख्यानमुपवर्तत इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम् / नचात्र 'समुचयेऽन्यतरस्याम्' इत्यत्र क्रियासमभिहारे इत्यस्याननुवृत्तेरुक्तत्वात् कथमिह पौनःपुन्यावगतिरिति वाच्यम्। 'आ च सत्यलोकादाचावीचेः विपरिवर्तमानम्' इति समभिव्याहारेण तदुपपत्तेः / उदाहृतश्रुतौ तु पौनःपुन्यं असकृत् पदगम्यमित्यदोषः। कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र क्रियासमभिहार इतिसूत्रेण लोडित्युक्तम् / तत्तु द्वित्वापत्तेहपेक्ष्यामिति शब्देन्दुशेखरे प्रपञ्चितम // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रिया निरूपण समाप्तम् / For Private And Personal Use Only