________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 459 दुपरि उपाध्यायश्चेदागच्छेत्--आगच्छति--आगमिष्यति--आगन्ता वा अथ त्वं छन्दोऽधीष्व / 2789 / वर्तमानसामीप्ये वर्तमानवहा / (3-3-131) समीपमेव सामीप्यम् / स्वार्थे व्यञ् / 'वर्तमाने लट्' (सू 2151) इत्यारभ्य ‘उणादयो बहुलम्' (सू 3169) इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः / कदा आगतोऽसि / अयमागच्छामि / अहमागमम् / कदा गमिष्यसि / एष गच्छामि-गमिष्यामि वा। 2790 / आशंसायां भूतवच्च / (3-3-132) वर्तमानसामीप्ये इति नानुवर्तते / भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् / देवश्चेदवर्षीद्वर्षति-वर्षिष्यति वा धान्यमवाप्स्म दूर्ध्वकालीने इत्यर्थः / लोडर्थलक्षण इत्यत्रान्वेति प्रैषादाविति / लिङ्लटाविति // चाल्लट समुच्चीयत इति भावः / वा स्तः इति // पक्षे लुट्लटौ यथाप्राप्तम् / छन्दः इति // वेद इत्यर्थः / इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्थाः लविधयः / अथास्मिन्नेव तृतीयपाद क. तिपयान् विधीनाह / वर्तमानसामीप्ये // स्वार्थ प्यनिति // अस्मादेव निर्देशात् चतुवणादेराकृतिगणत्वाद्वेति भावः / इत्यारभ्येति // तृतीयस्य द्वितीये 'वर्तमाने लट' इत्यारभ्य आपादसमाप्तेः 'उणादयो बहुलम्' इति तृतीयपादादिमसूत्रात् प्राक् वर्तमानाधिकारः / तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यः वर्तमान प्रत्यया विहिताः ते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यः वर्तमानसमीपकाले भूत भविष्यति च वा भवन्तीत्यर्थः / अत्र भूते भविष्यति चेत्यार्थिकम् / तयोरेव वर्तमानसामीप्यसत्वात्। कदा आगतोऽसीत्यागतं प्रति प्रश्नः / अयमागच्छामीत्युत्तरम् / अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः / वर्तमानसमीपकाले भूते लट् / अयमित्यनेन आगमनकालीनं प्रवदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते / इदानीमागमं सूचयितुं वर्तमानवत्त्वाभावे भूते लङ् / कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामि इत्युत्तरम् / अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः / एष इति तु अयमितिवत् व्याख्ययः / वर्तमानकालसमीपे भविष्यति लट् / गमिष्यामि वेति वर्तमानवत्त्वाभावे भविष्यति लट् / आशंसायां भूतवच्च // नानुवर्तते इति // अत्र व्याख्यानमेव शरणम् / अप्राप्तस्य प्रियस्य प्राप्तीच्छा आशंसा / सा च भविष्यद्विषयैव / भूते इच्छाविरहात् / तदाह / भविष्यति काले इति // देवश्चेदिति // देवः पर्जन्यः, अवर्षीचेत् धान्यमवाप्स्म / वर्षति चेत् वपामः / वर्षिष्यति चेत् वास्याम इत्यन्वयः / भूतवद्भावात् भविष्यति लुङ् / अवर्षीदिति अवाप्स्मेति च For Private And Personal Use Only