________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् चान्यत्रात्मनेपदात्" (वा 1880) भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः / अलंकुरुते कन्या / अलमकृत / अवकिरते हस्ती / अवाकीष्ट / गिरते। अगीष्ट / आद्रियते / आहत / किरादिस्तुदाद्यन्तर्गणः / चिकीर्षते कटः / अचिकीर्षिष्ट / इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियात्वम् / 2770 / न रुधः। (3-1.64) अस्माच्च्लेश्चिण्न / अवारुद्ध गौः / कर्मकर्तरीत्येव / अवारोधि गौगोपेन / 2771 / तपस्तपःकर्मकस्यैव / (3-1-88) वाच्यतया ते भूषाकर्माणः धातवः / भूषणक्रियावाचिनामिति यावत् / तदाह / भूषावाचिनामित्यादिना // अलंकुरुते कन्येति // स्वयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः / अत्र भूषार्थकत्वात् कर्मकर्तरि तडेव नतु यक् / अलमकृतेति // अत्र तळेच नतु चिण् / लुटि तु अलङ्कतेत्येव / नतु चिण्वदिटौ / अवकिरते हस्तीति // हस्तिनमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकारः / तत्र हस्ती कर्म / तस्य कर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिः अवकिरणवान् भवतीत्यर्थः / अत्रापि तडेव, नतु यगादि। अवाकीष्टेति // 'लिङ्सिचोरात्मनेपदेषु' इति वेट् / गिरतेइति॥ ओदनं स्वयमेवेति शेषः / 'गृ निगरणे' अयङ्किरादिः / आद्रियते इति // ‘दृङ् आदरणे' अयमपि किरादिः / शप्रत्यये 'रिङ् शयग्लिङ्घ' इति रिङ् / अतिथिमाद्रियते इति मुख्यकर्तरि आद्रियतेऽतिथिरिति कर्मकर्तरि स्वयमेव आदरणाश्रय इत्यर्थः / अत्र यद्यपि शे यकि च न विशेषः / तथापि न्याय्यश्श एव / यको निषिद्धत्वात् / स्वरे वा विशेषः / तङि तु डित्त्वादेव सिद्धः / अतिथेरभिहितत्वात् प्रथमेति विशेषः / आइतेति // चिणोऽनेन निषेधे 'हूस्वादङ्गात्' इति सिचो लोपः / 'उश्च' इति कित्त्वम् / अथ सन्नन्तस्योदाहरति / चिकीर्षते कटः इति // स्वयमेव कर्तुमिच्छाविषय इत्यर्थः / नन्विच्छायाः पुरुषरूपकर्तृनिष्टत्वात् कटरूपकर्मनिष्टत्वाभावात् इच्छायां सत्यां असत्याञ्च कटे कर्मणि वैलक्षण्यादर्शनाच्च कर्मस्थक्रियत्वाभावादिह कर्मवत्त्वस्याप्रसक्तेस्तनिषेधो व्यर्थ इत्यत आह / इच्छायाः इति // न रुधः // 'च्लेस्सिच्' इत्यतः च्लेरिति ‘चिण्ते पदः' इत्यतश्चिणिति चानुवर्तते / तदाह / अस्माच्च्लेश्चिण नेति // अवारुद्ध गौरिति // स्वयमेवेति शेषः / कर्मकर्तरीत्ये. वेति // 'अचः कर्मकर्तरि' इत्यतस्तदनुवृत्तेरिति भावः / अवारोधि गोर्गोपेनेति // इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिनिषेध इति भावः / तपस्तपःकर्मकस्यैव // आद्यं तपः इति षष्ठ्यन्तम् / तपःकर्मकस्यैव तपधातोरिति लभ्यते / ‘कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते / 'कर्मवत्कर्मणा' इत्यतः कर्मवदित्यनुवर्तते, इति मत्वा For Private And Personal Use Only