________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 448 सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् एषां कर्मकर्तरि यक्चिणौ न स्त: / दुहेरनेन यक एव निषेधः / चिण्तु विकल्पिष्यते / शप् , लुक् / गौ: पयो दुग्धे / 2768 / अचः कर्मकर्तरि / (3-1-62) अजन्ताच्च्लेश्चिण्वा स्यात्कर्मकर्तरि तशब्दे परे / अकारि-अकृत / 2769 / दुहश्च / (3-1-63) अदोहि / पक्षे क्स: / 'लुग्वा-' (सू 365) इति पक्षे लुक् / अदुग्ध-अधुक्षत / उदुम्बर: फलं पच्यते / सृजियुज्योः श्यंस्तु' (वा 1877) हारलभ्यमेव / ‘अचः कर्मकर्तरि ' इत्यतो मण्डूकप्लु या तदनुवृत्तिर्वा / दुहेरनेनेति // 'न दुहस्नुनमाम्' इत्यनेन दुहेः कर्मकर्तरि यक एव निषेधः / चिण्तु ‘दुहश्च' इति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः / कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः / चिण्तु विकल्पेनेष्यते इति क्वचित्पाठः / दुग्धे इत्यत्र प्रक्रियां दर्शयति / शप् लुगिति // दुहेः कर्मकर्तरि यकि निषिद्ध शप् प्रवर्तते। तस्य 'अदिप्रभृतिभ्यः' इति लुगित्यर्थः। गौः पयो दुग्धे इति // गौः स्वयमेव पय उत्सृजतीत्यर्थः / कर्मकर्तृभूतायां गवि लट् / स्वरितेत्त्वेऽपि भावकर्मणोः इत्यात्मनेपदमेव / 'न दुह' इति न यक्। गां पयो दुग्धे इति तु नोदाहृतम् / 'गौणे कर्मणि दुह्यादेादयो मताः' इत्युक्तेः। अचः कर्मकर्तरि // 'च्लेस्सिच्' इत्यतः च्लेरिति 'चिण ते पदः' इत्यतः चिण्ते इति, दीपजन इत्यतः अन्यतरस्यामिति, चानुवर्तते। 'धातोरेकाचः' इत्यतो अनुवृत्तस्य धातुग्रहणस्य अचा विशेषितत्वात्तदन्तविधिः। तदाह / अजन्तादित्यादिना ॥अकारीति // कटं स्वयमेवेति शेषः / कर्मकर्तरि लुङ् / च्लेश्चिण् / वृद्धिः। रपरत्वम्। 'चिणो लुक् ' इति तशब्दस्य लुक् / अकृतेति // चिणभावपक्षे 'हूस्वादङ्गात्' इति सिचो लोपः। दुहश्च // अच इति वर्ज पूर्वसूत्रं तत्रानुवृत्तं, तत्सर्वमिहानुवर्तते। कर्मकर्तरि तशब्दे परे दुहेश्चिण्वा स्यादित्यर्थः / स्पष्ट इति न व्याख्यातम् / अनुवृत्तिसौकार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् / अदोहीति // दुहेः कर्मकर्तरि लुङ् / स्वयमेव गौः पय इति शेषः / चिण्पक्षे लघू. पधगुणः / चिणभावपक्षे आह / पक्षे क्सः इति // ‘शल इगुपधात्' इत्यनेनेति भावः। लुग्वेति // ‘लुग्वादुहदिहलिहगुहाम्' इति क्सस्य पाक्षिको लुगित्यर्थः / अत्र दुहिपच्योरित्यत्र पचेरुदाहरति / उदुम्बरः फलं पच्यते इति // उदुम्बरवृक्षं फलं पचति कालविशेषः इत्यत्र द्विकर्मकः पचिः / इह तु इदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्वाश्रयं करोतीत्यर्थः / अत्र उदुम्बरस्य गौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात् ‘सकर्मकाणां प्रतिषेधः' इति कर्मवत्त्वस्य प्रतिषेधे प्राप्ते 'दुहिपच्योः' इति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः / वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान्न द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः / तथाच कर्मकर्तरि उदुम्बरः फले पच्यते इत्यत्र फलस्यैव कर्मतया तस्य कर्तृत्वविवक्षायां पचेरकर्मकत्वात् 'सकर्मकाणाम्' इति प्रतिषेधस्याप्रसक्तेः For Private And Personal Use Only