________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् शास्त्रार्थः, स्मरति, श्रद्दधाति वा / ' यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तण्डुलेषु, यथा वा छिन्नेषु काष्ठेषु, तत्र कर्मस्था क्रिया / नेतरत्र / न हि पक्कापक्कतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते / करोतिरुत्पादनार्थः / उत्पत्तिश्च कर्मस्था / तेन करिष्यते घट इत्यादि / यत्नार्थत्वे तु नैतसिद्ध्येत् / ज्ञानेच्छादिवद्यनस्य कर्तृस्थत्वात् / एतेनानुव्यवस्यमानेऽर्थे इति व्याख्यातम् / कर्तृस्थत्वेन यगभावाच्छयनि कृते ओलोपे च रूपसिद्धेः / व्यापार विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः। 'अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति वेति॥' पूर्वार्धमिदम् / यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा' इत्युत्तरा. र्धम् / गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थः अधिगच्छति निश्चयविषयो भवति स्मृ. तिविषयो भवति श्रद्धाविषयो भवतीत्यर्थः / अत्र कर्मकर्तुः ग्रामादेः कर्तृस्थक्रियावत्त्वेन कर्म स्थक्रियावत्त्वाभावात् न कर्मवत्त्वम् / अतः न कर्मकार्य यगादि / किन्तु कर्तृकार्य शवाद्येवेति भावः / ननु कर्मकर्तुः ग्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह / यत्रेति // यत्र कियाकृतः विशेषः वैलक्षण्यं दृश्यते प्रत्यक्षमुपलभ्यते तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः। तदुदाहृत्य दर्शयति / यथा पक्केषु तण्डुलेष्विति // तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते इति शेषः / अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति / यथा वा छिन्नेषु काष्ठेष्विति // अछिन्नापेक्षया वैलक्षण्यं दृश्यते इति शेषः / गच्छति ग्राम इत्यादौ तु नैवमित्याह / नहीति॥ ग्रामेष्विति // उपलक्षणमिदम् / पक्कापक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गतागतग्रामे आरूढानारूढहस्तिनि अधिगतानधिगते स्तृतास्तृते श्रद्धिताश्रद्धिते च शास्त्रार्थ क्रियाकृतवलक्षण्यन्न दृश्यते इत्यर्थः / प्रामगमनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः / ननु ज्ञानेच्छयोरिव यत्नस्यापि कर्तृ. स्थत्वात् तद्वाचिनः कृतोऽपि कर्ता न कर्मवत्स्यात् / ततश्च क्रियते घटः स्वयमेवेति यगादिः न सिद्येदित्याशङ्कय कृमो न यत्नार्थत्वमित्याह / करोतिरुत्पादनार्थः इति // उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः / एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् / करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वन्तत्कर्तुरुपपादयति / उत्पत्तिश्च कर्मस्थेति // उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्षत्वादिति भावः / तेनेति // कृत्रः कर्तुः कर्मक्रियत्वेनेत्यर्थः / तथाच क्रियते घटः स्वयमेवेत्यत्र यक् / तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्ता इति सिद्धवत्कृत्य आह / करिष्यते घट इत्यादीति // चिण्वदिट्पक्षे कारिष्यते इति रूपम् / तदाभावपक्षे तु 'ऋद्धनोः स्ये' इति इट् / करिष्यते / सीयुटश्चिण्वदिटि कारिषीष्ट / तदभावे तु कृषीष्ट / लुङि अकारिष्टअकृत / नैतदिति // कर्मवत्वन्न सिध्येदित्यर्थः / यतते इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम् / एतेनेति // ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः / अनुव्यवस्यमानेऽर्थ इति // अर्थे स्वयमेव निश्चयविषरतां सम्पद्यमाने इत्यर्थः / व्याख्यातमिति // समर्थितमित्यर्थः / कथं समर्थितमित्यत आह / कर्तृस्थत्वेन यगभावादिति // अनुव्यवसायः निश्चयः तत्र For Private And Personal Use Only