________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 445 (सू 3434) इति द्विलकारकात् ‘ल:' इत्यनुवृत्तेः भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः / अत एव कृत्यक्तखलाः कर्मकर्तरि न भवन्ति / किं तु भाव एव / भेत्तव्यं कुसूलेन / ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिद्विधाभवनं च / सैवेदानी कर्तृस्था नतु तत्तुल्या / सत्यम् / कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः / कर्मणा' इति किम् / करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् / किंच कर्तृस्थक्रियेभ्यो मा भूत् / गच्छति प्रामः / आरोहति हस्ती / 'अधिगच्छति लिङयाशिषीति // 'व्यत्ययो बहुलम् , लिङ्याशिघ्यङ्' इति संहितया पाठे लकारात् पूर्व लकारान्तरं ‘हलो यमाम् ' इति लुप्तं प्रश्लिष्यते / ततश्च ल् ल् इति द्विलकारात् सूत्रात् ल इति षष्ठ्यन्तं 'कर्मवत्कर्मणा' इत्यत्रानुवर्तते / तथाच लः कर्ता कर्मवदिति लभ्यते। वाच्यत्वं षष्ठ्यर्थः / तथाच लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः / अस्त्वेवम् / प्रकृते किमायातमित्यत आह / भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति // तत्र भावस्यैव तद्वाच्यत्वादिति भावः / अत एवेति // लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्ववि धानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति / तस्य लकारवाच्य. त्वाभावेन कर्मवत्त्वस्य तत्राप्रवृत्तेरित्यर्थः / एतच्च भाष्ये स्पष्टम् / ननु ‘सिनोतेसकर्मकर्तृ. कस्य' इति निष्ठानत्ववार्तिके सिनो ग्रासः स्वयमेवेति भाष्ये कथमुदाहृतम् / क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेत् उच्यते। अत एव भाष्यात् 'निष्ठा' इति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते / सिनो ग्रासः स्वयमेवेल्यत्र तु गत्यर्थाकर्मकेत्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः / भेत्तव्यं कुसूलेनेति // पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः / शङ्कते / नन्विति // इदानीमिति // कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः / नतु तत्तुल्येति // तुल्यत्वस्य भेदघटितत्वादिति भावः / अर्धाङ्गीकारेण परिहरति / सत्यमिति // विक्लित्तिर्द्विधाभवनञ्च कर्मस्थमेव सम्प्रति कर्तृ. स्थमिति युक्तम् / अथापि तयोस्तुल्यत्वाभावस्तु नेत्यर्थः / कर्मत्वेति // कर्मत्वकर्तृत्वे ये अवस्थे धर्मविशेषी तयोर्भेदः स एव उपाधिः निमित्तं यस्य तथाविधं तत्समानाधिकरणं कर्मत्वकर्तृत्वसमानाधिकरणं क्रियाभेदं आश्रित्य तुल्यव्यवहार इत्यर्थः। वास्तवभेदाभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वङ्कर्मकर्तुरिति भावः / करणाधिकरणाभ्यामिति // असिना छिनात्ति स्थाल्यां पचतीत्यत्र करणाधिकरणयोर्यो व्यापारः स एव असिश्छिनत्ति स्थाली पचती. त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात् / तन्निवृत्त्यर्थङ्कर्मणेति पदमित्यर्थः / ननु 'कर्मवत्कमणा' इत्यत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते / धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः / करणत्वाद्यवस्थायां वस्तुतस्सन्नपि असिस्थाल्योर्व्यापारो न धातूपात्त इति नोक्तदोष इत्यस्खरसादाह / किञ्चेति // गच्छति ग्रामः इति // मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः / आरोहति हस्तीति // अङ्कुशाघातादिहस्तिपक For Private And Personal Use Only