________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु। // अथ कर्मकर्तृतिप्रकरणम् // यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते / स्वव्यापारे स्वतन्त्रत्वात् / तेन पूर्व करणत्वादिसत्त्वेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः / साध्वसिः छिनत्ति / काष्ठानि पचन्ति / स्थाली पचति / कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्राये अथ कर्मकर्तृप्रक्रियान्निरूपयिष्यन् कर्मणः कर्तृत्वं साधयितुमाह / यदेति // फलव्यापारयोर्धातुरिति सिद्धान्तः। पचिर्हि विक्वित्त्यनुकूलव्यापारे वर्तते / तत्र विक्लित्तिः फलम् / तदाश्रयं ओदनं कर्म / तदनुकूलो व्यापारः अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः / तत्राधिश्रयणं चुल्या उपरि तण्डुलयुक्तस्थाल्याः / स्थापनं स्थित्यनुकूलव्यापारः। तत्र स्थितिः स्थालीतण्डुलनिष्ठा / तदनुकूल: पुरुषचेष्टाविशेषः / धातूपात्तव्यापाराश्रयः पुरुषः कर्ता / स्वतन्त्रत्वात् / स्वातन्त्रयम्प्राधान्यमिति भाष्यम् / कर्मकरणादिकन्तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः / तत्र यदा सौकर्यातिशयविवक्षया कर्तुः पुरुषस्य व्यापारः प्रयत्नः न वि. वक्ष्यते, किन्तु कर्मादिगत एव व्यापारः विक्लित्त्यादिफलानुकूलत्वेन विवक्ष्यते, तदा कर्मादिकारकाण्यपि कर्तृसंज्ञां लभन्ते इत्यर्थः / ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्व. तन्त्रत्वात्कथङ्कर्मणः कर्तृत्वमित्यत आह / स्वव्यापारे स्वतन्त्रत्वादिति // स्वातन्त्रण विवक्षितत्वादित्यर्थः / तदुक्तं 'कर्मवत्कर्मणा' इत्यत्र भाष्ये / 'कर्मकर्तरि कर्तृत्वं स्वातन्त्रयत्वविवक्षितत्वात्' इति / अत्र कर्मग्रहणङ्करणादिकारकस्याप्युपलक्षणम् / तेनेति // असिना छिनतीत्यादिप्रयोगदशायां असिकुठारादीनाङ्करणत्वादिसत्त्वेऽपि, असिः छिनत्ति इत्यादिप्रयोगदशा. याकर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थः / साध्वसिः छिनत्तीति // अत्र करणस्य कर्तृत्वविवक्षा। साधु इति क्रियाविशेषणम् / सौकातिशयद्योतनाय अतितैश्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असि: छिनत्तीत्यर्थः / काष्ठानि पचन्तीति // अत्रापि करणानाकर्तृत्वविवक्षा / स्थाली पचतीति // अत्राधिकरणस्य कर्तृत्वविवक्षा / काष्ठानामतिशुष्कत्वात् धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्व्य श्रपणतया सौकर्यम्बोध्यम् / कर्मणस्त्विति // ये छिदिभिदिप्रभृतयः एककर्मकाः तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षः छिनत्तीत्यादौ सकर्मकत्वेऽपि सम्प्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः / ये तु द्विकर्मकाः तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्वात्प्रायेणेत्युक्तिः / For Private And Personal Use Only