________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 सिद्धान्तकौमुदीसहिता ह्रियते / कृष्यते / उह्यते / बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा / भोज्यते माणवकमोदनः, माणवक ओदनं वा / देवदत्तो ग्रामं गम्यते / 'अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते' / मासो मासे वा आस्यते देवदत्तेन / णिजन्तात्तु प्रयोज्ये प्रत्ययः / मासमास्यते माणवकः / इति भावकर्मतिप्रकरणम् / कर्मणि लकारः। प्रामस्यानभिहितत्वात् द्वितीया / बुद्ध्यर्थस्योदाहरति / बोयते माणवकं धर्मः, माणवको धर्ममिति वेति // गुरुणेति शेषः / अत्र माणवके गौणकर्मणि धर्मे वा प्रधानकर्मणि ण्यन्तात् लकारः। भक्षार्थस्य तु अश्यन्ते देवाः अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम्। शब्दकर्मकस्य तु वेदोऽध्याप्यते विधिं हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् / यदुक्तङ्गत्यर्थानां अकर्मकाणां हृोश्चेत्येतेषां प्रयोज्यकर्मणि लकार इति / तत्र गत्यर्थस्योदाहरति / देवदत्तो ग्राम गम्यते इति // यज्ञदत्तेनेति शेषः / अत्र प्रयो. ज्यकर्मणि देवदत्ते गमेय॑न्तात् लः / ननु अकर्मकाणां ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति व्यवस्था व्यर्था / तत्र प्रयोज्यं विना अन्यस्य कर्मणोऽभावादित्याशङ्कय ‘अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इति वार्तिकेन अकर्मकधातूनामपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रेत्य मासमास्यते माणवक इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लः, नतु मासे कर्मणि इत्युदाहरिष्यते / एवं तर्हि अण्यन्तेष्वकर्मकेषु मासमास्यते देवदत्तेनेति भावे लकारो न स्यात् / सकर्मकेभ्यः कर्मणि कर्तरि च ल इति नियमात् मास आस्यते देवदत्तेनेत्येव कर्मणि मासे लकारः स्यादित्याशङ्कय आह / अकर्मकाणामित्यादि // ये अकर्मकाः ‘कर्तुरीप्सिततमङ्कर्म, तथायुक्तञ्चानीप्सितम्' इति सूत्रसिद्धकर्मरहिताः 'आस उपवेशने, वृतु वर्तने' इत्यादयः, तेषां ‘अकर्मकधातुभियोगे' इति वार्तिकसिद्धाकर्मकाणाङ्कर्मणि भावे च लकार इष्यते इत्यर्थः / नचेदं वार्तिकमिति भ्रमितव्यम् / भाष्ये अदर्शनात् / किन्तु न्यायमूलकमेव। अकर्मकधातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाध्याद्यभिमतत्वात्। यथा चैतत्तथा कारकाधिकारे 'अकर्मकधातुभिर्योगे' इति वचनव्याख्यावसरे अवोचाम। तदाह / मासो मासे वा आस्यते देवदत्तेनेति // अत्र मासस्य कर्मत्वपक्षे कर्मलकारः। मासस्याभिहितत्वात् प्रथमा / मासस्य कर्मत्वाभावपक्षे तु भावे लकारः / मास इति सप्तमी। मासमिति त्वपपाठः / अथ प्रकृतमनुसरति / णिजन्तात्त्विति // आसधातोः प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः / मासमास्यते माणवकः इति // ण्यन्तात्प्रयो. ज्यकर्मणि माणवके लः / मासस्यानभिहितत्वात द्वितीया / हकोस्त हार्यते कार्यते वा भृत्य कटं देवदत्तेन // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां भावकर्मप्रक्रिया समाप्ता। For Private And Personal Use Only