________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 441 लभेर्नुमागमो वा स्यात् / अलम्भि-अलाभि / व्यवस्थितविकल्पत्वाप्रादेनित्यं नुम् / प्रालम्भि / द्विकर्मकाणां तु गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् / बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया / प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः / (1090-1095 वार्तिकार्थः) गौर्दुह्यते पयः / अजा ग्रामं नीयते / शेषं पूरयति / लभेर्नुमागमो वेति // ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह / व्यवस्थितेति // प्रादेरुपसर्गात्परस्य लभेनित्यं नुम् / अनुपसर्गात्परस्य तु लभेर्विभाषा नुमिति व्यवस्थितविकल्पाश्रयणादुपसर्गपूर्वस्य लभेनित्यं नुमित्यर्थः। 'चिण्णमुलोरनुपसर्गस्य' इति वार्तिकाद्भाष्ये 'उपसर्गात् खल्घजोः' इत्यतः उपसर्गादिति ‘न सुदुर्ध्याम्' इत्यतो नेति चानुवर्त्य उपसर्गात्परस्य लभेः 'विभाषा चिण्णमुलोः' इति नेति व्याख्यातत्वाच्च / एतेन प्रपूर्वस्य लभेनित्यं नुमिति व्याख्यानं परास्तम्। 'लः कर्मणि' इति कर्मणि लकारा विहिताः। तथा 'तयोरेव कृत्यक्तखलाः' इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते। ते तावत् द्विकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह। द्विकर्मकाणां त्विति // कर्मप्रत्ययव्यवस्था वक्ष्यत इति शेषः / तां व्यवस्थां सार्धश्लोकेन दर्शयति / गौणे कर्मणीत्यादिना // 'दुह्याच्पच्दण्ड्धिप्रच्छिचिब्रूशासुजिमथ्मुषाम्' गौणे कर्मणि लादयो मता इत्यन्वयः। 'अकथितञ्च' इति सूत्रेण यस्य कर्मसंज्ञा तत् गौणङ्कर्मेति बोध्यम् / प्रधाने इति // नीहकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वयः / ‘अकथितञ्च' इति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधानकर्मेति बोध्यम् / अथ 'गतिबुद्धि' इति सूत्रेण ये द्विकर्मकाः तेषु व्यवस्थामाह / बुद्धीति // बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणाञ्च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः / इह 'गतिबुद्धि' इत्यनेन यस्य कर्मसंज्ञा तत् गौणं कर्म / तदितरत्तु प्रधानकर्म / प्रयोज्येति // अन्येषां गत्यर्थानां अकर्मकाणां 'हक्रोः' इति सूत्रोपात्तहोश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वयः / अयं सार्धश्लोकः ‘अकथितञ्च' इति सूत्रस्थवार्तिकभाष्यसङ्ग्रह इति बोध्यम् / गौर्दुह्यते पयः इति // गोपेनेति शेषः / अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः। तिङा अभिहितत्वात् गोः प्रथमा। प्रधानकर्मत्वात्पय इति द्वितीयान्तम् / तस्य तिङा अनभिहितत्वात् / बलिया॑च्यते वसुधाम् / अविनीतो विनयं याच्यते / तण्डुलाः ओदन पच्यन्ते / गर्गाः शतं दण्ज्यन्ते / व्रजो रुध्यते गाम् / माणवकः पन्थानं पृच्छयते / वृक्षोऽपचीयते फलानि / माणवको धर्म उच्यते। शिष्यते वा। शतं जीयते देवदत्तः / सुधां क्षीरोदधिर्मथ्यते / देवदत्तश्शतं मुष्यते / एतेषु गौणकर्मणि लकारः / अथ प्रधाने नीहकृष्वहामित्यत्रोदाहरति / अजा ग्रामं नीयते, ह्रियते, कृष्यते, उह्यते इति // प्रति. क्रियमजा ग्राममित्यन्वेति / उह्यत इत्यत्र वहतेर्यजादित्वात्सम्प्रसारणम् / अत्र अजायाम्प्रधान E6 For Private And Personal Use Only