________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 440 सिद्धान्तकौमुदीसहिता [भावकर्मतिङ् 2763 / नोदात्तोपदेशस्य मान्तस्यानाचमेः / (7-3-34) उपधाया वृद्धिर्न स्याञ्चिणि निति णिति कृति च / अशमि / अदमि / 'उदात्तोपदेशस्य' इति किम् / अगामि / 'मान्तस्य' किम् / अवादि / 'अनाचमेः' किम् / आचामि / 'अनाचमिकमिवमीनामिति वक्तव्यम्' (वा 4518) / चिणि 'आयादयः-' (सू 2305) इति णिङभावे / अकामि / णिजिचोरप्येवम् / अवामि / 'वध हिंसायाम्' / हलन्तः / 'जनिवध्योश्च-' (सू 2512) इति न वृद्धिः / अवधि / जाग्रोऽविचिण्णल्डित्सु' (सू 2480) इत्युक्तेन गुणः / अजागारि। 2764 / भञ्जेश्च चिणि / (6-4-33) नलोपो वा स्यात् / अभाजि-अभजि / 2765 / विभाषा चिण्णमुलोः / (7-1-69) त्यर्थः / शम्यते मुनिनेति // अकर्मकत्वाद्भावे ल इति भावः / नोदात्तोपदेशस्य // 'मृजेईद्धिः' इत्यतो वृद्धिरिति ‘अत उपधायाः' इत्यतः उपधाया इति 'अचो णिति' इत्यतो णितीति 'आतो युक्' इत्यतश्चिण्कृतोः इति चानुवर्तते / तत्र णितीति कृत एव विशेषणम् , नतु चिणः। अव्यभिचारात् / तदाह / उपधाया इत्यादिना // अनुदात्तोपदेशास्सङ्ग्रहीताः / ततोऽन्यस्सर्वोऽपि धातुरुदात्तोपदेशः। आङ्पूर्वश्वमिराचमिः तद्वर्जस्येत्यर्थः। अशमि। अदमीति // शमधातोर्दमधातोश्च लुङि णिचि 'अत उपधायाः' इति वृद्धिर्न / अगामीति // गमेरनुदात्तोपदेशत्वादिति भावः / अवादीति // वदधातुर्नमान्त इति भावः / आचामीति // अनाचमेरित्युक्तेरिह नोपधावृद्धिनिषेधः / अनाचमिकमिवमीनामिति // आचमिकमिवमिवर्जानाम्' इत्यर्थः / एवञ्च कमिवम्योरपि न निषेध इति फलितम् / ननु कमेणिडन्तत्वात् केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह / चिण्यायादयः इति // णिणिचोरप्येवमिति // णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववत् रूपं शिष्यते इत्यर्थः / ननु 'जनिवद्ध्योश्च' इति वधेरुपधावृद्धिनिषेधो व्यर्थः / वधादेशस्यादन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धरित्याशङ्कय वधिर्धात्वन्तरं हलन्तमेव 'जनिवयोश्च' इत्यत्र गृह्यत इत्यभिप्रेत्य आह / वध हिंसायां हलन्तः इति // भओश्च चिणि // 'श्नानलोपः' इत्यतो नेति लुप्तषष्टीक लोप इति चानुवर्तते / 'जान्तनशां विभाषा' इत्यतो विभाषेति मत्वा शेषं पूरयति / नलोपो वा स्यादिति। अभाजीति // नलोपपक्षे उपधावृद्धिः। विभाषा चिण्णमुलोः॥ 'लभेश्च' इत्यतो लभेरिति ‘इदितो नुम्' इत्यतो नुमिति चानुवर्तते इति मत्वा For Private And Personal Use Only