________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भावकर्मतिङ् नित्यत्वाच्च गुणे रपरे कृते अजन्तत्वाभावेऽप्युपदेशग्रहणाञ्चिण्वदिट् / आरिताअर्ता / स्मारिता-स्मर्ता / ' गुणोऽति-' (सू 2380) इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः / संस्क्रियते / ‘अनिदिताम् -' (सू 415) इति नलोपः / सस्यते / इदितस्तु नन्द्यते / सम्प्रसारणम् / इज्यते / 'अयङिय विङति' (सू 2649) / शय्यते / 2759 / तनोतेर्यकि / (6-4-44) आकारोऽन्तादेशो वा स्यात् / तायते तन्यते / 'ये विभाषा' (सू 2319) / जायते-जन्यते / 2760 / तपोऽनुतापे च / (3-1-65) तपश्च्लेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च / अन्वतप्त पापेन / पापं कर्तृ / तेनाभ्याहत इत्यर्थः / कर्मणि लुङ् / यद्वा पापेन पुंसा को अशोचीत्यर्थः / त्यादि // कृते गुणे रपरत्वे अजन्तत्वाभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तेश्चिण्वदिट् निर्बाध इत्यर्थः। आरितेति // कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः / अर्तेति // चिण्वदिडभावे रूपम् / एवं स्मारिता स्मर्तेत्यपि / ननु सम्पूर्वात् कृञः कर्मणि लकारे यकि 'रिङ् शयग्लिक्षु' इति रिङादेशे 'सम्परिभ्यां करोती भूषणे, समवाये च' इति सुटि संस्क्रियते इति वक्ष्यते। तत्र 'गुणोऽर्ति' इति संयोगादित्वात् गुणः स्यादित्यत आह / नित्यग्रहणानुवृत्तेरिति // 'नित्यं छन्दसि इत्यतो नित्यमित्यनुवृत्तेः 'गुणोऽर्ति' इत्यत्र नित्यं यस्योगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते / कृञ्तु न नित्यं संयोगादिः / सम्परिपूर्वकत्वाभावे तदभावादिति भावः / अथ संस्धातोर्भावलकारे यकि विशेषमाह / अनिदितामिति नलोपः इति // इदितस्त्विति // 'टु नदि समृद्धी' इत्यस्माद्भावलकारे यकि इदित्वानलोपो नेत्यर्थः / अथ यजधातोः कर्म लकारे यकि विशेषमाह। सम्प्रसारणमिति // 'वचिस्वपियजादीनाम् ' इत्यनेनेति भावः / शीद्धातोभीवलकारे यकि विशेषमाह / अयङिय क्ङितीति // तनोतेर्यकि // विडनोः' इत्यतः आदिति 'ये विभाषा' इत्यतः विभाषेति चानुवर्तते। तदाह / आकारोऽन्तादेशो वा स्यादिति // शेषपूरणमिदम् / तायते तन्यते इति // कर्मणि लकारः। तपोऽनुतापे च // 'चलम्सिच्' इत्यतः च्लेरिति चिण ते' इत्यतश्चिण् इति 'न रुधः' इत्यतो नेति चानुवर्तते / चकारात् 'अच: कर्म' इत्यतः कर्मकर्तरीति समुच्चीयते / तदाह / तपश्च्ले रित्यादि / तत्र कर्मकर्तरि कर्मकर्तृप्रक्रियायामुदाहरिष्यति / अनुतापे कर्मलकारे उदाहरति / अन्वतप्त पापेनेति // पापेनेति कर्तरि तृतीयेति मत्वा आह / पापङ्कर्बिति // अनुपूर्वस्य तपेः पश्चात्तापार्थकत्वे असङ्गतिः / नहि पापस्य सूर्यादिवत्तपनशक्तिरस्ति / शोकार्थकत्वे अकर्मकत्वापत्तिरित्यत आह / अभ्याहत इति // अनुपूर्वस्तपिरिह उपसर्गवशात् अभिहननार्थक इति भावः / तस्य च सकर्मकत्वात् कर्मलकारः उपपद्यते इति मत्वा आह। कर्मणि लुङिति // शोकार्थकत्वमाश्रित्य For Private And Personal Use Only