________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 'ह एति' (सू 2250) इति हत्वं न / तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादी सार्वधातुके एति हत्वप्रवृत्तेरित्याहुः / भाविता / चिण्वदिटः आभीयत्वेनासिद्धत्वाणिलोपः / पक्षे भावयिता / भाविष्यते-भावयिष्यते / भाव्यताम् / अभाव्यत / भाव्येत / भाविषीष्ट-भावयिषीष्ट / अभावि / अभाविषाताम्-अभावयिषाताम्। बुभूष्यते / बुभूषांचके / बुभूषिता / बुभूषिष्यते / बोभूय्यते / यङ्लुगन्तात्तु / बोभूयते / बोभवाञ्चक्रे / बोभाविता-बोभविता / 'अकृत्सार्व-' (सू 2298) इति दीर्घः / स्तूयते विष्णुः / तुष्टुवे / स्तावितास्तोता / स्ताविष्यते-स्तोष्यते / अस्तावि / अस्ताविषाताम्-अस्तोषाताम् / 'गुणोऽति' (सू 2380) इति गुणः / अर्यते / स्मयते / सस्मरे। परत्वाप्रथमैकवचनतशब्दस्य 'लिटस्तझयोः' इति एशादेशे उत्तमपुरुषैकवचनस्य इटश्च 'टित आत्मनेपदानाम्' इत्येत्वे च कृते भावयामास् ए इति स्थिते ‘ह एति' इति सकारस्य हकारःप्राप्तो न भवतीत्यर्थः / कुत इत्यत आह / तासीति // ‘ह एति' इत्यत्र तासस्त्योरित्यनुवर्तते / तत्र एधिताहे इत्यादौ तासेस्सस्य सार्वधातुक एव एति परे हकार इति निर्विवादः / तथाविधतासिसाहचर्यादस्तेरपि सकारस्य व्यतिहे इत्यादी सार्वधातुक एव परे प्रवृत्तिः / अतो भावयामासे इत्यत्र नास्तेस्सकारस्य हकारः / एकारस्यार्धधातुकत्वादित्यर्थः / भावितेति // ण्यन्तात् भावि ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्वदिटि तस्याभीयत्वेनासिद्धत्वादनिटीति निषेधाभावाणिलोपे भावितेति रूपम् / अत एव चिण्वदिड्डिधौ उपदेशे योऽजित्येव व्याख्यातम्, नतु उपदेशे अजन्तस्येति / तथा सति हिणिजन्तस्य उपदेशाभावान्न स्यादिति भावः / वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्धत्वाभावादनिटीति निषेधाणिलोपाभावे णेर्गुणायादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह / पक्षे भावयितेति // अथ सन्नन्तात् भूधातोः कर्मलकारे उदाहरति। बुभूष्यते इति // यकि सनोऽकारस्य 'अतो लोपः' इति लोपः। बुभूषिता / बुभूषिष्यते इति // चिण्वदिटि वलादिलक्षणे इटि च रूपं तुल्यम् / चिण्वदिड्भावपक्षेऽपि तदतिदेशेन प्राप्तां वृद्धिं बाधित्वा परत्वादतो लोपः। अथ यङन्तात् भूधातोः भावलकारे उदाहरति / बोभूय्यते इति // यकि यङोऽकारस्य पूर्ववदतोलोपः / द्वियकारक रूपम् / यङ्लुगन्तात् बोभूयते इति एकयकारं रूपम् / ष्टुञ्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वात् 'अतो दीर्घो यभि' इत्यप्राप्तावाह। अकृत्सार्वेति // स्ताविता-स्तोतेति॥चिण्वदिडभावपक्षे अनिटकत्वान्नेट / अथ ऋधातोः कर्मणि लकारे यकि कृते कित्त्वाद्गुणनिषेधे प्राप्ते आह / गुणोऽर्तीति॥ अर्यते इति // गुणे कृते रपरत्वम् / स्मृधातोः कर्मणि लकारे आह / स्मर्यते इति // 'गुणोऽर्ति' इति संयोगादित्वात् गुणे रपरत्वमिति भावः। ननु लुटि ऋ ता, स्मृ ता इति स्थिते चिण्वदिटं बाधित्वा परत्वात् गुणः प्राप्नोति नित्यत्वाच्च / अकृते कृते च चिण्वदिटि गुणस्य प्राप्तेः / कृते तु गुणे रपरत्वे अजन्तत्वाभावाचिण्वदिडभावे अनिट्वाद्वलादिलक्षणेडभावे अर्ता स्मर्तेत्येव स्यात् / आरिता स्मारितेति न स्यादित्यत आह / परत्वादि 55 For Private And Personal Use Only