________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु। // अथ भावकर्मतिप्रकरणम् // अथ भावकर्मणोलडादयः / ‘भावकर्मणोः' (सू 2679) इति तङ् 2756 / सार्वधातुके यक् / (3-1-61) धातोर्यक्प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे / भावो भावना उत्पादना क्रिया / सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते / __ अथ भावकर्मतिप्रकरणं निरूप्यते // 'लः कर्मणि' इत्यत्र सकर्मकभ्यो धातुभ्यः कमणि कर्तरि च। अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः / तेषु कर्तरि लकारा निरूपिताः / अथेदानी भावकर्मणोलकारा निरूप्यन्ते इति प्रतिजानीते / अथ भावकर्मणोलडा. दयः इति // निरूप्यन्ते इति शेषः। तत्र ‘शेषात्कर्तरि परस्मैपदम् , अनुपराभ्यां कृत्रः' इत्यादि परस्मैपदविधिषु प्राप्तेष्वाह / भावकर्मणोरिति / तङिति // सार्वधातुके यक्॥ धातो. रिति // धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः / भावकर्मवाचिनीति // 'चिण्भावकम: णोः' इत्यतस्तदनुवृत्तेरिति भावः / घटस्य भावो घटत्वमित्यादौ प्रकृतिजन्यबोधे प्रकारो भावः / कवेरयं भाव इत्यादी अभिप्रायः। “भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु / विद्वल्लीलाखभावेषु भूत्यभिप्रायजन्तुषु" इति नानाथरत्नमाला। 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु' इत्यमरः / इह तु 'ल: कर्मणि' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह। भावो भावनेति // 'ल: कर्मणि' इत्यत्रभावशब्देन भावना विवक्षितेति भावः। भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह / उत्पादनेति // उत्पत्त्यनुकूलो व्यापार इत्यर्थः / एवञ्च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोः भाविशब्दात् 'एरच' इति भावे अचि णिलोपे भावशब्द: भावयतेरुत्पत्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे ‘ण्यासश्रन्थो युच्' इति युचि अनादेशे टापि भावनाशब्द इति बोध्यम् / उत्पादनाचेयं धात्वर्थन्नातिरिच्यते इति दर्शयितुमाह / क्रियेति // धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः / तथाहि फलव्यापारयोर्द्धातुरिति सिद्धान्तः / पचधातोः पाकोऽर्थः / पाको विक्लित्त्य. नुकूलव्यापारः। तत्र विक्लित्त्यंशः फलम् / अधिश्रयणादिस्तदनुकूलो व्यापारः / तथाविधव्या राश्रयो देवदत्तादिः कर्ता / धातूपात्तव्यापाराश्रयः कर्तेति सिद्धान्तात् / अधिश्रयणादिव्यापारजन्या विक्लित्तिः फलम् / तदाश्रयत्वादोदनं कर्म। व्यापारजन्यफलशालि कर्मेति सिद्धान्तात् / एवं सकर्मकेषु सर्वत्र ज्ञेयम्। 'एध वृद्धौ' इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः / नचैवं सति एधते देवदत्त इत्यत्र धापूपात्तव्यापाराश्रयत्वायापारजन्यवृद्धिरूपफलाश्रयत्वाच्च कर्तृत्वं कर्मत्वञ्च स्यादिति वाच्यम / धातूपात्तव्यापारजन्यतयापारव्यधिकरणफलाश्रयत्वं कर्मत्व. For Private And Personal Use Only