________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [परस्मैपद 2751 / विभाषाऽकर्मकात् / (1-3-85) उपाद्रमेरकर्मकात्परस्मैपदं वा। उपरमति-उपरमते वा / निवर्तते इत्यर्थः / 2752 / बुधयुधनशजनेछुद्रुसभ्यो णेः / (1-3-86) एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् / ‘णिचश्च' (सू 2564) इत्यस्यापवादः / बोधयति पद्मम् / योधयति काष्ठानि / नाशयति दुःखम् / जनयति सुखम् / अध्यापयति / प्रावयति / प्रापयतीत्यर्थः / द्रावयति / विलापयतीत्यर्थः / स्रावयति / स्यन्दयतीत्यर्थः / 2753 / निगरणचलनार्थेभ्यश्च / (1-3-87) विभाषाऽकर्मकात् // उपादिति रम इति परस्मैपदमिति चानुवर्तते / तदाह / उपाद्रमे रिति // बुधयुध / वुध युध नश जन इङ् ग्रु द्रु एषान्द्वन्द्वः। बोधयति पद्ममिति // सूर्य इति शेषः / बुधिर्विकसनार्थकः / विकसति पद्मम् / तद्विकासयति सूर्य इत्यर्थः / 'अणावकर्मकाञ्चित्तवत्कतकात्' इति परस्मैपदन्तु न सिध्यति / अणौ पद्मस्य कर्तृतया चित्तवत्कर्तृकत्वाभावात् / योधयति काष्ठानीति // काष्ठानि युध्यन्ते स्वयमेव / तानि योधयतीत्यर्थः / अणावचित्तवत्कर्तृकत्वात् 'अणावकर्मकात्' इत्यस्य न प्राप्तिः। अत एव योधयति देवदत्तमिति नोदाहृतम् / 'अणावकर्मकाञ्चित्तवत्कर्तृकात्' इत्येव सिद्धेः / एवमग्रेऽपि ज्ञेयम् / नाशयति दुःखमिति // दुःखं नश्यति / तत् नाशयति हरिरित्यर्थः / जनयति सुखमिति // जायते सुखम् / तत् जनयति हरिरित्यर्थः / अध्यापयतीति // अधीते वेदः स्वयमेव / तमध्यापयतीत्यर्थः / 'पुगतौ' इत्यस्योदाहरति / प्रावयतीति // गत्यर्थकत्वं मत्वा आह / प्रापयतीत्यर्थः इति // द्रावयतीति // द्रवत्याज्यं तत् द्रावयतीत्यर्थः / धातोर्द्रवीभावार्थकत्वं मत्वा आह / विलापयतीत्यर्थः इति // स्रावयतीति // स्रवति जलम् / तत्स्रावयतीत्यर्थः / धातोः स्यन्दनार्थकत्वं मत्वा आह / स्यन्दयतीत्यर्थः इति // “प्रीतिं भक्तजनस्य यो जनयते” इत्यात्मनेपदन्तु प्रामादिकमेव / यद्वा भक्तजनः हरौ प्रीतिं जनयत्यात्मविषये तां हरिः जनयते इति ण्यन्ताण्णौ रूपम् / प्रयोज्यकर्तुः शेपत्वविवक्षया भक्तजनस्येति षष्टीत्याहुः। निगरण // निगरणं भक्षणम् / चलनङ्कम्पनम् / एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः / पूर्वसूत्रे द्रुतणाङ्ग्रहणन्तु अचलनार्थानामेव / अत एव मूले प्रापयतीत्यादि व्याख्यातं पानमपि भक्षणमेव 'अपोऽनाति' इति श्रुतेः। अतएव 'न पादम्याङ्यमाङयस' इति सूत्रे पाग्रहणमर्थवत् / “न पीयतानाम चकोरजिह्वया कथञ्चिदेतन्मुखचन्द्रचन्द्रिका। इमाङ्किमाचामयसे न चक्षुषा चिरश्चकोरस्य भवन्मुखस्पृशी॥” इति श्रीहर्षश्लोके आचामयेति पृथक्पदम्। अः विष्णुः तस्याः स्त्री ई: लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य सम्बोधनम् / 'एड्स्वात्' इति सम्बुद्धिलोप For Private And Personal Use Only