________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा। 425 2746 / अभिप्रत्यतिभ्यः क्षिपः / (1-3-80) ‘क्षिप प्रेरणे' / स्वरितेत् / अभिक्षिपति / 2747 / प्रादहः। (1-3-81) प्रवहति / 2748 / परेम॒षः। (1-3-82) परिमृष्यति / भौवादिकस्य तु परिमर्षति / इह परेरिति योग विभज्य वहेरपीति केचित् / 2749 / व्याङ्परिभ्यो रमः / (1-3-83) विरमति / 2750 / उपाच्च / (1-3-84) यज्ञदत्तमुपरमति / उपरमयतीत्यर्थः / अन्तर्भावितण्यर्थोऽयम / क्षाधीनः कर्मकर्ता तथाविधकर्तयेय ‘अनुपराभ्यां कृञः' परस्मैपदमिति लभ्यते / एवञ्च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः / अभिप्रति // परस्मैपदमिति शेषः / रवरितेदिति // ततश्च कर्तगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः / अभिक्षिपतीति // प्रतिक्षिपति अतिक्षिपति इत्यप्युदाहार्यम् / प्राद्वहः॥ प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः / वहेः स्वरितेत्त्वात् कर्पगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् / परेम॒षः॥ परस्मैपदमिति शेषः / 'मृषस्तितिक्षायाम्' इति देवादिकस्य स्वरितेत्त्वात् पदद्वये प्राप्ते अयं विधिः। तदाह / परिमृष्यतीति // चौरादिकस्यापि 'आधृषाद्वा' इति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव परिमर्षतीति। भौवादिकस्य त्विति // 'मृषु सहने, सेचने च' इति भौवादिकस्य तु परस्मैपदित्वात् परिमर्षतीत्येव रूपं सिद्धम् / अतोऽस्मिन् सूत्रे तस्य न ग्रहणमिति भावः / इहेति // परेरिति योगो विभज्यते। वह इत्यनुवर्तते / परेर्वहः परस्मैपदमित्यर्थः / परिवहति / मृष इति योगान्तरम् / तत्र परेः इत्यनुवर्तते परेः मृषः परस्मैपदमित्युक्तोर्थ इति केचिदाहुरित्यर्थः / भाष्ये त्वयं योगविभागो न दृश्यते / व्याङ्परिभ्यो रमः // परस्मैपदमिति शेषः / रमेरनुदात्तत्वाद्विधिरयम् / विरमतीति | आरमति, परिरमति, इत्यप्युदाहार्यम् / उपाच // उपपूर्वादपि रमेः परस्मैपदमित्यर्थः / उत्तरसूत्रे उपादित्यस्यैवानुवृत्तये व्यापर्युपेभ्यो रमेरिति नोक्तम् / अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम् / तस्य अकर्मकतया उत्तरसूत्रेण परस्मै. पदविकल्पविधानात् / अतस्सकर्मकमुदाहरति / यज्ञदत्तमुपरमतीति // ननु विरामार्थकत्वात् कथं सकर्मकतेत्यत आह / उपरमयतीत्यर्थः इति // ननु णिजभावात् कथमयमों लभ्यते इत्यत आह / अन्तर्भावितण्यर्थोऽयमिति // धातूनामनेकार्थत्वादिति भावः / 54 For Private And Personal Use Only