________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरस्तु / // अथ तिङन्तपरस्मैपदप्रकरणम् // 'शेषात्कर्तरि परस्मैपदम्' (2159) अत्ति / 2745 / अनुपराभ्यां कृञः। (1-3-79) कृर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् / अनुकरोति / पराकरोति / कर्तरीत्येव / भावकर्मणोर्मा भूत् / न चैवमपि कर्मकर्तरि प्रसङ्गः / कार्यातिदेशपक्षस्य मुख्यतया तत्र 'कर्मवत्कर्मणा-' (सू 2766) इत्यात्मनेपदेन परेणास्य बाधात् / शास्त्रातिदेशपक्षे तु कर्तरि शप्' (सू 2167) इत्यतः 'शेषात् -' (सू 2159) इत्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कतैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् / अथ परस्मैपदव्यवस्थानिरूपयितुमुपक्रमते // शेषात्कर्तरीति // अनुपराभ्यां कृञः॥ परस्मैपदमिति शेषः / ननु ‘स्वरितत्रितः' इत्यात्मनेपदस्य कर्तृगामिन्येव फले विधानादकर्तृगामिनि फले 'शेषात्कर्तरि' इति परस्मैपदस्य सिद्धत्वात् किमर्थमिदमित्यत आह / कर्तृगे चेति / गन्धनादाविति // गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः / मा भूदिति॥ भावे कर्मणि लकारस्य कर्तृगे फले परस्मैपदनिवृत्त्यर्थ कर्तरीत्यस्यानुवृत्तिरिति भावः। ननु कर्तरीत्यस्यानुवृत्तावपि अनुक्रियते शब्दः स्वयमेवेत्यत्र कर्मकर्तरि परस्मेपदन्दुरिमित्याशङ्कय परिहरति। नचेति // एवमपि कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्कय इत्यर्थः / कुत इत्यत आह / कार्यातिदेशेति // तत्र कर्मकर्तरि ‘कर्मवत्कर्मणा तुल्यक्रियः' इत्यात्मनेपदेन परेणास्य परस्मैपदस्य बाधादित्यन्वयः / ननु कर्मणि यच्छास्त्रं तत् 'कर्मवकर्मणा' इति कर्मकर्तर्यतिदिश्यते / तथा चात्र कर्मकर्तरि ‘भावकर्मणोः' इत्यात्मनेपदशास्त्रमिह प्राप्तम् / तस्य च परत्वाभावात् 'अनुपराभ्यां कृजः' इत्यनेन कथं बाधः स्यादित्यत आह / कार्यातिदेशपक्षस्य मुख्यतयेति // शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम्। ततश्च कर्मवत् कर्मणेत्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते। तस्य च परत्वात्तेनात्मनेपदेन 'अनुपराभ्याम् ' इति परस्मैपदकर्मकर्तरि बाधमर्हतीति भावः / 'कर्मवकर्मणा' इत्यत्र शास्त्रातिदेशमभ्युपगम्य आह / शास्त्रातिदेशपक्षे त्विति // 'अनुपराभ्यां कृषः' इत्यत्र 'कर्तरि कर्मव्यतिहारे' इत्यस्मादेककर्तृग्रहणमनुवर्तते / तथा ‘शेषात् कर्तरि परस्मैपदम्' इत्यस्मात् द्वितीयं कर्तृग्रहणमनुवर्तते। तथा च स्वभावत एव यः कर्ता, नतु विव For Private And Personal Use Only