________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2744 / विभाषोपपदेन प्रतीयमाने / (1-3-77) 'स्वरितषितः' इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोञ्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् / स्वं यज्ञं यजति-यजते वा। स्वं कटं करोति-कुरुते वा / स्वं पुत्रमपवदति-अपवदते वा / स्वं यज्ञं कारयति--कारयते वा / स्वं ब्रीहि संयच्छति-संयच्छते वा / स्वां गां जानाति -जानीते वा। इत्यत्रान्वितं नृप इति प्रथमान्तं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः / विभाषोपपदेन // स्वरितभित इत्यादीति // 'स्वरितअितः कभिप्राये क्रियाफले, अपाद्वदः, णिचश्च, समुदाभ्यो यमोऽग्रन्थे, अनुपसर्गाज्ज्ञः' इति पञ्चसूत्रीत्यर्थः / समीपोच्चारितम्पदमुप. पदम् , नतु 'तत्रोपपदं सप्तमीस्थम्' इति सङ्केतितम् / असम्भवात् / तदाह / समीपोच्चारितेन पदेनेति // फलस्य कर्तृगामित्वे नित्यमात्मनेपदे पञ्चसूत्रया प्राप्ते विभाषेयमिति 'नवेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् / स्वं यज्ञमिति // स्वीयमित्यर्थः / अत्र स्वशब्देनैव फलस्यात्मगामित्वावगमात् 'स्वरितजितः' इति नित्यमात्मनेपदस्यानेन विकल्पः / स्वं यज्ञ कारयतीत्यत्र ‘णिचश्च' इत्यस्यानेन विकल्पः / स्वं व्रीहिमिति // अत्र ‘समुदाङ्झ्यो यमः' इत्यस्यानेन विकल्पः / स्वां गामिति // अत्र ‘अनुपसर्गाज्ज्ञः' इत्यस्यानेन विकल्पः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायामात्मनेपदव्यवस्था समाप्ता। For Private And Personal Use Only