________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 421 भ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे दर्शयते आरोहयते इत्युदाहरणम् / अर्थः प्राग्वत् / अस्मिन्पक्षे द्वितीयकक्ष्यायां न तङ् / समानक्रियात्वाभावाण्णिजर्थस्याधिक्यात् / अनाध्याने' किम् / स्मरति वनगुल्म कोकिल: / स्मरयति वनगुल्मः / उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः / 'भीरम्योर्हेतुभये' (सू 2594) व्याख्यातम् / 2739 / गृधिवञ्चयोः प्रलम्भने / (1-3.69) प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् / माणवकं गर्धयते, वञ्चयते वा / 'प्रलम्भने' किम् / श्वानं गर्धयति। अभिकाङ्क्षामस्योत्पादयतीत्यर्थः / अहिं वञ्चयति / वर्जयतीत्यर्थः / ‘लिय: सम्माननशालिनीकरणयोश्च' (सू 2592) / व्याख्यातम् / णिज्भ्यामिति // हेतुमण्णिज्भ्यां तत्प्रकृतिभूतशिरुहिभ्याञ्च उपात्तयोः प्रेरणयोस्त्यागे सति चाक्षुषज्ञानविषयो भवति भव इति न्यग्भवति हस्तीति चार्थः पर्यवस्यति / तत्र प्रकृतसूत्रे णात्मनेपदे दर्शयते भवः आरोहयते हस्तीति च सिद्धमित्यर्थः। पश्यन्ति भवं भक्ता इति आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायाङ्कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायाङ्कर्तृत्वात् प्रथमकक्ष्यायां अणौ या क्रिया तस्या एवात्र तृतीयकक्ष्यायां सत्त्वाचेति तृतीयकक्ष्यायामुदाहरणे सूत्रप्रवृत्तिरुपपाद्या / नच प्रथमकक्ष्यायाञ्चाक्षुषज्ञानविषयङ्कुर्वन्तीति न्यग्भावयन्तीति प्रकृत्युपात्तस्य प्रेषणांशस्य तृतीयकक्ष्यायां त्यागादणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेयंशस्य कथं प्रवृत्तिरिति वाच्यम् / सैव चण्ण्यन्तेनेत्यत्र आधिक्यमानं व्यवच्छिद्यते, नतु न्यूनत्वमपि इत्यदोषात् / ननु द्वितीयकक्ष्यायामेव कुतो न तडित्यत आह / अस्मिन्पक्षे द्वितीयेति // कुत इत्यत आह / समानक्रियात्वाभावादिति // द्वितीयकक्ष्यायां अणौ या क्रिया सैव चे. एण्यन्तेनोच्यतेत्यंशस्याभावादिति यावत् / तदेवोपपादयति / णिजर्थस्येति // रिति किम् / पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् / स्मरति वनगुल्मकोकिलः इति // स्मृतिविषय त्वमापादयतीत्यर्थः / पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितीयतृतीयकक्ष्ययोरप्युपलक्षणम् / तत्र निवृत्तप्रेषणपक्षे स्मरति वनगुल्म इति द्वितीयकक्ष्या / स्मृतिविषयो भवतीत्यर्थः। स्मरति वनगुल्मकोकिल इति तृतीयकक्ष्या / स्मृतिविषयत्वमापादयतीत्यर्थः / अध्यारोपितप्रेषणपक्षे त्वेषा द्वितीयकक्ष्या। स्मरन्तम्प्रेरयतीत्यर्थः / स्मरयति वनगुल्मः इति // प्रत्युदाहरणमिदम् / निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा / अध्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् / ‘स्मृ आध्याने' इति घाटादिकत्वेन मित्त्वाद्रस्वः / विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेष्व. नुसन्धेयः। गृधिवञ्च्योः // प्रलम्भनं प्रतारणमिति मत्वा आह / प्रतारणेऽथै इति // प्राग्वदिति // आत्मनेपदमित्यर्थः / धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः / मिथ्योप For Private And Personal Use Only