________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 420 सिद्धान्तकौमुदीसहिता [आत्मनेपद एवमारोहयते हस्तीत्यप्युदाहरणम् / आरोहन्ति हस्तिनं हस्तिपकाः / न्यग्भावयन्तीत्यर्थः / तत आरोहति हस्ती / न्यग्भवतीत्यर्थः। ततो णिच् आरोहयन्ति / आरोहन्तीत्यर्थः / तत आरोहयते न्यग्भवतीत्यर्थः / यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्ष्या प्राग्वत् / ततः कर्मण एव हेतुत्वारोपाण्णिच् / दर्शयति भवः / आरोहयति हस्ती / पश्यत आरोहतश्च प्रेरयतीत्यर्थः / ततो णिज्भ्यां तत्प्रकृति यां या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव दर्शयते भव इति चतुर्थकक्ष्यायां ण्यन्त. दृश्यर्थत्वादित्यर्थः / अनेन अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यतेत्यंश उपपादितः / अथ अणौ यत्कर्मकारक णौ स चेत्कर्ता स्यादित्यशमुपपादयति / प्रथमायामिति // पश्यन्ति भवं भक्ता इति प्रथमकक्ष्यायां अण्यन्तदाशिकर्मणो भवस्य दर्शयते भव इति चतुर्थकक्ष्यायां ण्यन्तदृशिकर्तृत्वाचेत्यर्थः / अथ कर्तृस्थक्रियाधातुमुदाहरति / एवमारोहयते हस्तीत्यप्युदाहरणमिति // तत्र प्रथमकक्ष्यामाह / आरोहन्ति हस्तिन हस्तिपकाः इति // हस्तिनम्पान्तीति हस्तिपाः। त एव हस्तिपकाः / स्वार्थे कः / उपरिभागाक्रमणानुकूलव्यापारो रुहेरर्थः / तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारस्सोपानगमनादिः / इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षितः / तच्च नीचीकरणम् / तदाह / न्यग्भावयन्तीति / अत्र उपरिभागाक्रमणानुकूलन्यग्भावनानुकूलोऽङ्कुशपातादिः व्यापारः / उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् / तदाश्रयत्वाद्धस्ती कर्म / तादृशव्यापाराश्रयत्वाद्धस्तिपकाः कर्तारः। अथ द्वितीयकक्ष्यामाह / ततः इति // प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति हस्तीति भवतीत्यर्थः / प्रेषणांशपरित्यागे फलितमाह / न्यग्भवतीत्यर्थः इति // अथ तृतीयकक्ष्यामाह / ततो णिजिति // प्रेषणांशं परित्यज्य न्यग्भवनार्थकत्वमाश्रितात् धातोः प्रेषणविवक्षायां हेतुमणिजिति भावः / आरोहयन्तीति // हस्तिनं हस्तिपका इति शेषः / प्रेषणांशनिवृत्तौ णिजन्तस्य फलितमर्थमाह / आरोहयन्तीत्यर्थः इति // आक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् / चतुर्थकक्ष्यामाह / ततः इति // अविवक्षितप्रेषणात् ण्यन्तात् प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूप. मित्यर्थः / प्रेषणांशत्यागे सति ण्यन्तस्य फलितमर्थमाह / न्यग्भवतीत्यर्थः इति // तदेवं निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिजिध्यते, इति पक्षमाश्रित्योदाहृतम् / इदानीमध्यारोपितप्रेषणपक्षमाश्रित्य आह / यद्रेति // पश्यन्तीति // पश्यन्ति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपकाः इति च, प्रथमकक्ष्या पूर्ववद्याख्येयेत्यर्थः। द्वितीयकक्ष्यामाह। ततः कर्मणः इति // दृशेः रुहेश्च प्रथमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजककर्तृत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः / दर्शयति भवः इति // भक्तानिति शेषः / तदाह / पश्यत आरोहतश्च प्रेरयतीत्यर्थः इति // चाक्षुषज्ञानविषयत्वमापादयतो भक्तान् भवः प्रेरयति न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः / उभयत्र हेतुमण्णिच् / तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकम्प्रे. रणम् / णिचा तु तद्विषयकमेकैकम्प्रेरणान्तरम्प्रतीयते इति स्थितिः / चतुर्थकक्ष्यामाह / ततो For Private And Personal Use Only