________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 419 भवं भक्ताः / पश्यन्तीत्यर्थः / पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः / इह प्रथमतृतीययोरवस्थयोद्वितीयचतुर्योश्च तुल्योऽर्थः / तत्र तृतीयकक्ष्यायां न तङ् / क्रियासाम्येऽप्यणौ कर्मकारकस्य णो कर्तृत्वाभावात् / चतुझं तु तङ् / द्वितीयामादाय क्रियासाम्यात् / प्रथमायां कर्मणो भवस्येह कर्तृत्वाञ्च / इति // क्रिया तु गम्यं प्रेषणांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेदृशेर्हेतुमण्णिजित्यर्थः / दर्शयन्ति भवं भक्ताः इति // चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थः / तदाह / पश्यन्तीत्यर्थः इति // चाक्षुषज्ञानविषयकुर्वन्तीत्यर्थः / पुनरिति // चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके दर्शयन्ति भवं भक्ता इत्युक्तोदाहरणे णिजर्थस्य आपादनांशस्य अविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति दर्शयते भव इत्युदाहरणमित्यर्थः / अत्र ण्यन्तस्य प्रेरणारहितेऽर्थे लक्षणा / गङ्गायाङ्घोष इत्यत्र टाप इव णिचः स्थितिः / चुरादेराकृतिगणत्वात् स्वार्थिको णिजित्यन्ये / इहेति // अवस्था पदविशेषात्मकावयवसन्निवेशविशेषः / प्रथमा च द्वितीया च प्रथमद्वितीये। तयोरवस्थयोरिति विग्रहः / 'सर्वनाम्नो वृत्तिमात्रे' इति प्रथमाशब्दस्य पुवत्त्वम् / पश्यन्ति भवं भक्ता इति प्रथमावस्था / पदविशेषसन्दर्भ इति यावत् / अवस्थैव कक्ष्येति व्यवहरिष्यते मूले / कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका / तद्यथा / रामायणे ‘आ पञ्चमायाः कक्ष्यायाः नैनङ्कश्चिदवारयत्' इत्यादि / इदञ्च प्रथमवाक्यम् / प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् / चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणांशत्यागस्य प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याभावे असम्भवात् / प्रेरणांशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य पश्यन्ति भवं भक्ता इति प्रथमवाक्यसमानार्थकस्य उपपादिका / चाक्षुषज्ञानविषयत्वापादनानुकूलव्यापारार्थवृत्तेदशहेतुमण्णिचि चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारान्तरस्यापि प्रवेशापत्तेः / तृतीयं वाक्यन्त्विदन्दर्शयन्तीति ण्यर्थस्याविवक्षायां दर्शयते भवः इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्यसमानार्थकस्य ण्यन्तघटितस्योपपादकमिति स्पष्टमेव / तथाच प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भवं भक्ताः, इत्यनयोः तथा पश्यति भवः, दर्शयते भवः, इति द्विर्तायचतुर्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः / तत्र प्रथमद्वितीययोः कक्ष्ययोः दृशेर्ण्यन्तत्वाभावादेव तङो न प्रसक्तिरिति मत्वा आह / तत्र तृतीयकक्ष्यायान्न तङिति // कुत इत्यत आह / क्रियासाम्येऽपीति // दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायाः, पश्यन्ति भवं भक्ताः, इति प्रथमकक्ष्यासमानार्थकतया अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यतेत्यंशस्य सत्त्वेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायां णौ कर्तृत्वाभावादित्यर्थः / एवञ्चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणञ्चेत्युक्ता भवति / अणौ या क्रिया सैव चेण्ण्यन्तेनोच्यतेत्यंशस्य तु अद्ध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायान्न तङिति वक्ष्यते / चतुर्थकक्ष्या तु प्रकृतसूत्रस्योदाहरणमित्याह / चतुर्थ्यान्तु तङिति // ‘णेरणौ' इति प्रकृ. तसूत्रेणेति शेषः / तदेवोपपादयति / द्वितीयामादायेति // पश्यति भव इति द्वितीयकक्ष्या For Private And Personal Use Only