________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 418 सिद्धान्तकौमुदीसहिता [आत्मनेपद तथाहि / पश्यन्ति भवं भक्ताः / चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः / प्रेरणांशत्यागे पश्यति भवः / विषयो भवतीत्यर्थः / ततो हेतुमण्णिच् / दर्शयन्ति इति भाष्यप्रयोगो मानम्। अन्यथा तत्र 'अणावकर्मकात्' इति परस्मैपदापत्तेः। दर्शनविषयो भवतीत्यर्थे पश्यति भवः इत्यत्र दृशेरणावकर्मकत्वात् चित्तवत्कर्तृकत्वाच्च ‘विभाषोपपदेन' इति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् / अन्ये तु दर्शयते राजा इति भाष्यप्रयोगः फलस्य परगामित्वाविषयो भविष्यति / एवञ्च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किञ्चिद्वाधकमिति पूर्वविप्रतिषेधाश्रयणश्चिन्त्यमित्याहुः / तच्चिन्त्यम् / अणावकर्मकादित्यस्य परगामिन्यपि फले परत्वात् प्रवृत्तेर्दुर्वारत्वात् / नह्यणावकर्मकादित्यत्र कर्मभिप्राये इत्यस्ति / 'खरितत्रितः कभिप्राये' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् / ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भवः इत्यत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्य -- कर्मवत्कर्मणा' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनेपदसिद्धेः ‘णेरणौ' इति सूत्रं व्यर्थमित्यत आह / कर्तृस्थेति // कर्तृस्थः भावो येषां ते कर्तृस्थभावकाः / कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः एवंविधा धातव इह सूत्रे उदाहरणम् / 'कर्मवत्कर्मणा' इत्यस्य तु कर्मस्थभावकाः कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणा' इति सूत्रे च भाष्ये स्पष्टम् / अतो विषयभेदात् 'कर्मवत् कर्मणा' इत्यनेन ‘णेरणौ' इत्यस्य न गतार्थतेति भावः / अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः / यथा दर्शनश्रवणादिः। परिस्पन्दनसाधनसाध्यो धात्वर्थः क्रिया / यथा पाकादिः / यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति / तथापि तद्भिवहस्तपादादिचेष्टैवात्र स्पन्दनमित्यविरोधः / तत्र कर्तृस्थभावकमुदाहरति / पश्यन्ति भवं भक्ताः इति // सकर्मकेषु धातुषु फलव्यापारयोर्धातुः / यथा पचेर्विक्लित्त्यनुकूलो व्यापारः। तत्र विक्लित्तिः फलम् / तदनुकूलोऽधिश्रयणादिर्व्यापारः। धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादिः / व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतङ्कर्म / यथा तण्डुलान् पचतीत्यत्र विक्लित्याश्रयास्तण्डुला इति स्थितिः / प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापारार्थकत्वे सकर्मकत्वानुपपत्तिः / फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरणत्वात् / अतो दृशेश्चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः / तत्र ज्ञानविषयत्वापत्तिः फलम् / तदनुकूल: प्रयत्नादिव्यापारो देवदत्तनिष्ठः / एवञ्च प्रयत्नादिव्यापारव्यधिकरणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते / तदेतदाह / चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः इति // प्रेर. णेति // यथा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरों विवक्षितः / नतु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशः / तदा पश्यति भवः इत्यस्य चाक्षुषज्ञानविषयस्सम्पद्यते इत्यर्थः / सौकर्याति. शयविवक्षया अनुकूलव्यापारांशस्य अविवक्षा बोद्ध्या / तथाच चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्य. र्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव / तदाह / विषयो भवतीत्यर्थः इति // लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः। नचात्र भवस्य वस्तुतो दर्शनकर्मणः इह कर्तृत्वात् 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्कयम् / 'कर्मवत्कर्मणा' इत्यस्य कर्मस्थभावकेषु कर्मस्थक्रियेषु च प्रवृत्तेः। अतः कर्मकर्तर्यपि शबादिकमेवेति भावः। ततः For Private And Personal Use Only