________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 417 यत्कर्मकारकं स चेण्णौ कर्ता स्यान्न त्वाध्याने / णिचश्च' (सू 2564) इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् / कभिप्राये तु ‘विभाषोपपदेन-' (सू 2744) इति विकल्पे 'अणावकर्मकात्-' (सू 2754) इति परस्मैपदे च परत्वाप्राप्ते / पूर्वविप्रतिषेधेनेदमेवेष्यते' / कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् / स्यादिति // अणौ यत् कर्म णौ चेदिति द्वितीयं वाक्यम् / 'कर्तरि कर्मव्यतिहारे' इतिवत्कमशब्दोऽत्र क्रियापरः / यत्तदोर्नित्यसम्बन्धात् तदिति लभ्यते / तथाच अणी या क्रिया सा ण्यन्ते चेदिति लभ्यते / एवं सति पचति पाचयतीत्यादौ सर्वत्र अणौ क्रियायाः ण्यन्ते अवश्य. सत्त्वाद्वाक्यमिदमनर्थकम् / तस्मात् अणी या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते / ततश्च द्वितीयवाक्यस्य फलितमाह / अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येत इति // स कर्तेति तृतीय वाक्यम् / अत्र अणौ यत् कर्म णौ चेदित्यनुवर्तते। कर्मशब्दोऽत्र कारकविशेषपरः / शब्दाधिकाराश्रयणात्। तदेतदाह / अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति // अत्र तच्छब्दस्य विधेयसमर्पककर्तृशब्दानुसारेण पुल्लिङ्गता ज्ञेया / 'शैत्यं हि यत्सा प्रकृतिजलस्य' इतिवत् / अथ 'अनाध्याने' इति चतुर्थे वाक्यं व्याचष्टे / न त्वाच्याने इति // आध्यानमुत्कण्ठापूर्वकं स्मरणम् / तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते। वस्तुतस्तु आध्याने आत्मनेपदन्नेत्यर्थाश्रयणे भवतीत्यत्र नोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन समासासम्भवात् पर्युदास एवायम् / 'न त्वाध्याने' इति मूलन्तु फलितार्थकथनपरमेव / तथाच आध्यानभिन्नेऽर्थे विद्यमानात् ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव आध्याने इत्यस्यान्वयात् त्रीण्येवात्रावान्तरवाक्यानीति युक्तम् / वाक्यत्रयमित्येव च भाष्ये दृश्यते / ननु ‘णिचश्च' इति सिद्धे किमर्थमिदं सूत्रमित्यत आह / णिचश्चेतीति // परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः / स्यादेतत् / 'विभाषोपपदेन प्रतीयमाने' इति सूत्रं वक्ष्यते / कर्तृगामिनि क्रियाफले यदात्मनेपदं विहितं तत् उपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः / स्वं यज्ञं यजति यजते वेत्यायुदाहरणम् / ‘णेरणौ' इत्यस्य तु दर्शयते भवः इत्यनुपदमेव उदाहरणं वक्ष्यते इति स्थितिः / तत्र दर्शयते भवः स्वयमेवेत्यत्र फलस्य कर्तृगामित्वविवक्षायां णेरणाविति नित्यमात्मनेपदमिष्यते / तत्र परत्वात् ‘विभाषोपपदेन' इति विकल्पः स्यात् / ‘णेरणौ' इत्यस्य फले आत्मगामित्वगमकोपपदाभावे सावकाशत्वात् / किञ्च 'अणावकर्मकाचित्तवत्कर्तृकात्' इति वक्ष्यते / अण्यन्ते यो धातुरकर्मकः चित्तवत्कर्तृकश्च तस्मात् ण्यन्तात् परस्मैपदं स्यादिति तदर्थः / शेते कृष्णः / तं गोपी शाययतीत्युदाहरणम् / णेरणावित्यस्य तु दर्शयते भव इत्युदाहरणं विषय इति स्थितिः। तत्र लूधातोः लुनाति केदारं देवदत्तः इत्यत्र चित्तवत्कर्तृकत्वात् लूयते केदारः इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाञ्च लावयते केदार इति ण्यन्तात् ‘णेरणौ' इत्यात्मनेपदं बाधित्वा परत्वात् 'अणावकर्मकात्' इति परस्मैपदमेव स्यात् / णेरणावित्यस्य दर्शयते भवः इत्यत्र सावकाशत्वादित्यत आह / कञभिप्राये विति // पूर्वविप्रतिषेधेनेति // पूर्वविप्रतिषेधाश्रयणे राजा दर्शयते 53 For Private And Personal Use Only