________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2247 / इणः षीध्वंलुङ्किटां धोऽङ्गात् / (8-3.78) इण्णन्तादङ्गात्परेषां षीध्वंलुङ्तिटां धस्य मूर्धन्यः स्यात् / एधाञ्चकृढे / एधांचक्रे एधाञ्चकृवहे / एधाञ्चकृमहे / एधाम्बभूव / अनुप्रयोगसामर्थ्यादस्ते भावो न / अन्यथा हि 'क्रस्चानुप्रयुज्यते' इति -- कृभु-' इति वा ब्रूयात् / 2248 / अत आदेः। (7-4-70) अभ्यासस्यादरतो दीर्घः स्यात् / पररूपापवादः / एधामास / एधामासतुरित्यादि। एधिता / एधितारौ / एधितारः / एधितासे। एधितासाथे / / शोपदेश इति // अवधीदित्यत्रातोहलादेलघोरिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्ततया भाष्ये उक्तत्वादिति भावः / ननु के ते अनुदात्ता धातव इत्यत आह / अनुदात्तास्त्व. नुपदमेवेति // पदस्य पश्चादनुपदम् पदमात्रे अतीते सतीत्यर्थः / अनन्तरमेवेति यावत् / एधाञ्चकृषे इति // इडभावे प्रत्ययावयवत्वात् षत्वम् / एधाश्चक्राथ इति // लिट: आथामादेशः / टेरेत्वम् / द्वित्वादि पूर्ववत् / लिटो ध्वमष्टेरेत्वे द्वित्वादी एधाञ्चकृध्वे इति स्थिते / इणः पीध्वमिति // षीध्वं लुङ् लिट् एषां द्वन्द्वः धः इति षष्टयेकवचनम् / इण इत्यङ्गविशेषणम् / तदन्तविधिः / अपदान्तस्य मूर्धन्य इत्यधिकृतम् / तदाह / इण्णन्तादित्यादिना॥ धकारस्य ढकारो मूर्धन्यः / घोषसंवारनादमहाप्राणप्रयत्नसाम्यात् / तदाह / एधाञ्चकृड्व इति // उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादी कृते रूपमाह / एधाश्चक्र इति / एधाञ्चकृवह इति // लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत् / एवं लिटो महिभावे द्वित्वादि पूर्ववत् / सर्वत्रासंयोगाझिकिदिति कित्वाद्गुणाभावः। अथ भूधातोः लिडन्तस्यानुप्रयोगे उदाहरति / एधाम्बभूवेति // एधाञ्चक्र इत्यनेन समानार्थकम्। अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् / नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वात् अस्ते रित्यार्धधातुके विहितो भूभावः कुतो न स्यादित्यत आह / अनुप्रयोगेति // कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोभूभावो नेत्यर्थः / तदेवोपपादयति / अन्यथेति // अनुप्रयुज्यमानस्यास्तेभूभावाभ्युपगमे कृश्चानुप्रयुज्यत इत्यनुप्रयोगविधौ क्रस्चानुप्रयुज्यत इति वा कृभुचानुप्रयुज्यत इतिवा ब्रूयात् / तावता एधाम्बभूवेति सिद्धेरित्यर्थः / यद्यपि कृजित्युक्तौ लाघवमस्ति / तथापि एकस्यैव भवतेरधिकस्य लाभाय कृजिति प्रत्याहारक्लेशो न कर्तव्य इति भावः / अत एवात उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते / ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधां अस् अ इति स्थिते द्वित्वे हलादिश्शेषे अ अस् इति स्थिते सवर्णदीर्घम्बाधित्वा अतो गुण इति पररूपे प्राप्ते। अत आदेरिति // अत्रलोप इत्यस्मादभ्यासस्येत्यनुवर्तते / व्यथो लिटीत्यतो दीर्घ इति। तदाह / अभ्यासस्यति // अत्र यद्वक्तव्यन्तन्नामधातुप्रक्रियायां अ इवाचरति अतीत्यादि ग्रन्थस्य व्याख्या For Private And Personal Use Only