________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 415 पुत्रमनुजिज्ञासति / पूर्वसूत्रस्यैवायं निषेधः / 'अनन्तरस्य-' (प 62) इति न्यायात् / तेनेह न / सर्पिषोऽनुजिज्ञासते / सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः / 'पूर्ववत्सनः' (सू 2734) इति तङ् / ' अकर्मकाच्च' (सू 2718) इति केवलाद्विधानात् / 2733 / प्रत्याभ्यां श्रुवः। (1-3-59) आभ्यां सन्नन्ताच्छ्रव उक्तं न स्यात् / प्रतिशुश्रूषति / आशुश्रूषति / कर्मप्रवचनीयात्स्यादेव / देवदत्तं प्रति शुश्रूषते / ' शदेः शितः' (सू 2362) ‘म्रियतेलुङ्लिङोश्च' (सू 2538) व्याख्यातम् / 2734 / पूर्ववत्सनः / (1-3-62) सन: पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् / एदिधिषते शिशयिषते / निविविक्षते / ‘पूर्ववत्' किम् / बुभूषति / 'शदे:-' (सू 2362) (सू 2538) इत्यादिसूत्रद्वये ‘सनो न' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् / तेनेह न / शिशत्सति / मुमूर्षति / 'आम्प्रत्ययवत्कृत्रोऽनुप्रयोगस्य (सू 2240) एधांचक्रे / र्वात् ज्ञाधातोस्सन्नन्तात् नात्मनेपदमित्यर्थः / पुत्तमनुजिज्ञासतीति // अनुज्ञातुमिच्छतीत्यर्थः। ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे सर्पिषोऽनुजिज्ञासते इत्यत्रापि 'अपह्नवे ज्ञः, अकर्मकाच' इत्यात्मनेपदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह / पूर्वसूत्रस्यैवेति // एवञ्च सर्पिषोऽनुजिज्ञासते इत्यत्र ‘अकर्मकाच्च' इत्यात्मनेपदनिर्वाधमिति भावः / ननु ‘अकर्मकाच्च' इति ज्ञाधातोरात्मनेपदे सनन्तात्कथमात्मनेपदलाभ इत्यत आह / पूर्ववदिति // केवलात् सन्विहीनात् ज्ञाधातोरात्मनेपदविधानात् सन्नन्तादपि तस्मात् 'पूर्वव. त्सनः' इत्यात्मनेपदमित्यर्थः / प्रत्याभ्यां श्रुवः॥ उक्तं नेति // आत्मनेपदन्नेत्यर्थः / प्रत्याङाविहोपसीवेव गृह्यते / व्याख्यानात् / तदाह / कर्मप्रवचनीयात्स्यादेवेति // आत्मनेपदमिति शेषः / देवदत्तं प्रतीति // ‘लक्षणेत्थम्भूत' इति प्रतिः कर्मप्रवचनीयः / पूर्ववत्सनः // पूर्वेणेव पूर्ववत् / तेन तुल्यमिति तृतीयान्ताद्वतिः। पूर्वशब्देन सन्प्रकृतिर्विवक्षिता। तदाह / सनः पूर्वः इत्यादि // एदिधिषते इति // सन्प्रकृतेरेव धातोरात्मनेपदित्वात्तत्प्रकृतिकसनन्तादात्मनेपदम् / 'नेविंशः' इत्यात्मनेपदविधानात्तत्प्रकृतिकसनन्तादपि आत्मनेपदम् / ननु ‘शदेः शितः' ‘म्रियतेलुङ्लिडोश्च' इत्यात्मनेपदविधानात् शिशत्सति मुमूर्षति इत्यत्रापि सन्नन्तादात्मनेपदं स्यादित्यत आह / शदेरित्यादीति // आदिना म्रियतेः 'लुङ्लिङोश्च' इत्यस्य ग्रहणम् / शदेरित्यादिसूत्रद्वये 'पूर्ववत्सनः' इति ‘नानोः' इत्यतो नेति चानुवर्त्य शदेर्मियतेश्च सन्नन्तानात्मनेपदमिति व्याख्येयमित्यर्थः / नन्वेवं सति शीयते For Private And Personal Use Only