________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 413 अवगिरते / 'गृणातिस्त्ववपूर्वो न प्रयुज्यत एव' इति भाष्यम् / ___ 2725 / समः प्रतिज्ञाने / (1-3-52) शब्दं नित्यं सङ्गिरते / प्रतिजानीते इत्यर्थः / 'प्रतिज्ञाने' किम् / सङ्गिरति ग्रासम् / 2726 / उदश्वरः सकर्मकात् / (1-3-53) धर्ममुञ्चरते / उल्लङ्घ-य गच्छतीत्यर्थः ‘सकर्मकात्' किम् / बाष्पमुचरति / उपरिष्टाद्गच्छतीत्यर्थः / 2727 / समस्तृतीयायुक्तात् / (1-3-54) रथेन सञ्चरते। 2728 / दाणश्च सा चेचतुर्थ्यर्थे / (1-3-55) सम्पूर्वाहाणस्तृतीयान्तेन युक्तादुक्तं स्यात् सा च तृतीया चेञ्चतुर्थ्यर्थे / दास्या संयच्छते / पूर्वसूत्रे ‘समः' इति षष्ठी / तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते / रथेन समुदाचरते / दास्या संप्रयच्छते / तदनित्यत्वे इदमेव मानम् / अवगिरते इति // शविकरणोऽयम् / अवगृणातीत्यत्राप्यात्मनेपदमाशङ्कय आह / गृणातिस्त्विति // एवञ्च तुदादेरेव ग्रहणमिति भावः / समः प्रतिज्ञाने // गिरतेरात्मनेपदमित्यर्थः / प्रतिज्ञानम् अभ्युपगमः / सङ्गिरति ग्रासमिति // भक्षयतीत्यर्थः // उदश्चरः // उत्पूर्वाञ्चरधातोस्सकर्मकादात्मनेपदमित्यर्थः / समस्तृतीया / सकर्मकादिति निवृत्तम् / सम्पूर्वात् तृतीयान्तसमभिव्याहृताच्चरेरात्मनेपदमित्यर्थः / तृतीयायुक्तादिति किम् / रथिकाः सञ्चरन्ति / अत्र यद्यपि रथेनेत्यर्थाद्गम्यते / तथापि तृतीयान्तश्रवणाभावानात्मनेपदम् / एतदर्थमेव योगग्रहणम् / अन्यथा तृतीययेत्यवक्ष्यत् / सकर्मकादप्येतदात्मनेपदम्भवति / अविशेषात् / अत एव तृतीयायुक्तादिति किम् / 'उभौ लोकौ सञ्चरसीमञ्चामुञ्च लोकम्' इति भाष्यं सङ्गच्छते। दाणश्च सा / / 'समस्तृतीयायुतात्' इत्यनुवर्त्तते / तदाह / सम्पूर्वादिति // उक्तं स्यादिति // आत्मनेपदमित्यर्थः। सा चेदिति // तच्छब्देन तृतीया परामृश्यते / तदाह / तृतीया चेदिति // दास्या सं. यच्छते इति // अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया वाच्येति तृतीया / ननु रथेन समुदाचरते इत्यत्र 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्य न प्रवृत्तिः / आङा व्यवहितत्वेन सम्पूर्व कत्वाभावात् 'तस्मादित्युत्तरस्य' इति परिभाषया सम इति पञ्चम्याः चरेः अव्यवहितपरत्वलाभात् / तथा दास्यां सम्प्रयच्छते इत्यत्रापि 'दाणश्च सा चेत् ' इति कथम्प्रवर्तते / प्रशब्देन व्यवधानादित्यत आह / पूर्वसूत्रे समः इति षष्ठीति // तथाच षष्ठ्या पौर्वापर्यमेव गम्यते / For Private And Personal Use Only