________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 411 सर्पिषो जानीते / सर्पिषोपायेन प्रवर्तते इत्यर्थः / 2719 / संप्रतिभ्यामनायाने / (1-3-46) शतं सञ्जानीते / अवेक्षते इत्यर्थः / शतं प्रतिजानीते / 'अङ्गीकरोतीत्यर्थः / 'अनाध्याने' इति योगो विभज्यते / तत्सामर्थ्यात् अकर्मकाञ्च' (सू 2718) इति प्राप्तिरपि बाध्यते / मातरं मातुर्वा सानाति / कर्मणः शेषत्वविवक्षायां षष्ठी। 2720 / भासनोपसम्भाषाज्ञानयत्नविमत्युप ___मन्त्रणेषु वदः / (1-3-47) उपसम्भाषोपमन्त्रणे धातोर्वाच्ये, इतरे प्रयोगोपाधयः / शास्त्रे वदते / धातुः प्रवृत्तौ वर्तते / 'ज्ञोऽविदर्थस्य करणे' इति तृतीयाथै षष्ठी / तदाह / सर्पिषोपायेन प्रवर्तते इति ॥'अनुपसर्गात् ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम्। सर्पिषोऽनुजानीते / सम्प्रतिभ्यामनाध्याने // ज्ञः आत्मनेपदमिति शेषः / अवेक्षते इत्यर्थः इति // अकर्मकत्वाभावात् पूर्वेणाप्राप्तिरिति भावः / अनाध्याने किम् / मातरं सञ्जानाति / आध्यायतीत्यर्थः / उत्कण्ठापूर्वकं स्मरणमाध्यानम् / ननु यदा आट्याने कर्मणश्शेषत्वविवक्षया षष्ठीमाश्रित्य मातुस्सञ्जानाति इति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः / 'सम्प्रतिभ्यामनाध्याने ' इत्यात्मनेपदस्याप्रवृत्तावपि 'अकर्मकाच' इति सूत्रेणात्मनेपदं दुर्वारम् / तत्र अनाड्याने इत्यभावात् सम्प्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मातरं सानातीति सकर्मके चरितार्थत्वादित्यत आह / अनाद्ध्याने इति योगो विभज्यते इति // ततश्च 'सम्प्रतिभ्याम्' इत्येको योगः / सम्प्रतिपूर्वात् ज्ञः आत्मनेपदमित्यर्थः / 'अनाध्याने' इति योगान्तरम् / अनाड्याने सम्प्रतिभ्यामात्मनेपदमित्यर्थः / ततः किमित्यत आह / अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति // ननु अनन्तरस्येऽति न्यायेन सम्प्रतिभ्यामित्यस्यैव बाधो युक्त इत्यत आह / तत्सामर्थ्यादिति // एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्यवहितस्यापि बाध इत्यर्थः / ननु मातरं मातुर्वा सञ्जानाति इत्यत्र मातु: कर्मत्वात् द्वितीयैव युक्तेत्यत आह / कर्मणः शेषत्वविवक्षायां षष्ठीति // नचैवमपि 'अधीगर्थदयेशां कर्मणि' इति षष्ठ्येव स्यानतु द्वितीयेति वाच्यम् / तत्र शेष इत्यनुवर्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायान्तु द्वितीयेत्यभ्युपगमात् / नचैवं सति 'षष्टी शेषे' इत्यनेनैव सिद्धत्वात् ‘अधीगर्थ' इति व्यर्थमिति वाच्यम् / मातुः स्मरणमित्यादौ शेषषष्ट्यास्समासाभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् / भासनोपसम्भाषा // आत्मनेपदमिति शेषः / इतरे इति // भासनज्ञानादय इत्यर्थः / प्रयोगोपाधयः इति // 'सम्माननोत्सञ्जन' इत्यत्र व्याख्यातं प्राक् / भासनन्तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः / शास्त्रे वदते For Private And Personal Use Only