________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 408 सिद्धान्तकौमुदीसहिता [आत्मनेपद 2709 / सम्माननात्सञ्जनाचार्यकरणज्ञानभृ तिविगणनव्ययेषु नियः। (1-3-36) अत्रोत्सजनज्ञानविगणनव्ययाः नयतेर्वाच्याः / इतरे प्रयोगोपाधयः / तथा हि शास्त्रे नयते / शास्त्रस्थं सिद्धान्तं शिष्येभ्य: प्रापयतीत्यर्थः / तेन च शिष्यसम्माननं फलितम् / उत्सञ्जने / दण्डमुन्नयते / उत्क्षिपतीत्यर्थः / माणवकमुपनयते / विधिना आत्मसमीपं प्रापयतीत्यर्थः / उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते / ज्ञाने / तत्वं नयते / निश्चिनोतीत्यर्थः / कर्मकरानुपनयते / भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः / विगणनमृणादेर्निर्यातनम् / करं विनयते / राज्ञे देयं भागं परिशोधयतीत्यर्थः / शतं विनयते / धर्मार्थ विनियुङ्क्ते इत्यर्थः / हादकर्मकत्वम् / सम्माननोत्सञ्जन // एषु गम्येषु णीब्धातोरात्मनेपदमित्यर्थः / परगामिन्यपि फले आत्मनेपदार्थमिदम् / इतरे इति // सम्माननाचार्यकरणभृतयः इत्यर्थः / प्रयोगोपाधयः इति // वाच्यत्वाभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः / आत्मनेपदद्योत्या इति यावत् / तदेवोपपादयितुं प्रतिजानीते / तथाहीति // सम्मानने उदाहरति / शास्त्रे नयते इति // अत्र णञ् िप्रापणार्थकः / सिद्धान्तमित्यध्याहार्यम् / सिद्धान्तम्प्रत्यधिकरणत्वात् शास्त्रे इति सप्तमी / तदाह / शास्त्रस्थमिति // तेनेति // सिद्धान्तप्रापणेनेत्यर्थः / फलितमिति // अर्थादिति भावः / उत्सञ्जने इति // उदाहियते इति शेषः / उत्सअनमुत्क्षेपः। उत्क्षिपतीत्यर्थः इति // धातूनामनेकार्थत्वादिति भावः / आचार्यकरणे उदाहरति / माणवकमुपनयते इति // उपपूर्वो णीञ् समीपप्रापणार्थकः / सामीप्यञ्च प्रत्यासत्त्या प्रापयित्रपेक्षमेव / तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम् / पूर्वोत्तराङ्गकलापानानसामर्थ्यात् / तदाह / विधिना आत्मसमीपं प्रापयतीति // तत्राचार्यकरणस्यार्थिकत्वमुपपादयति / उपनयनपूर्वकेणेति // माणवकमुपनयीत तमद्ध्यापयीतेत्यध्यापनार्थत्वमुपनयनस्यावगतम् / अध्यापनादाचार्यत्वं सम्पद्यते / 'उपनीय तु यश्शिष्यं वेदमध्यापयेत्तु यः / सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते।' इपि स्मरणात् / तथा च आ. चार्यकरणमुपनयसाध्यत्वादार्थिकमिति भावः / ज्ञाने इति // उदावियते इति शेषः। निश्चिनोतीत्यर्थः इति // नयतिर्निश्चयार्थक इति भावः / भृतौ उदाहरति / कर्मकरानुपनयते इति // भृतिः वेतनं तदर्थङ्कर्म करोतीति कर्मकरः / 'कर्मणि भृतो' इति टप्रत्ययः / कर्मण्युपपदे कृञः टः स्यात्कर्तरीति तदर्थः / उपपूर्वको णीञ् समीपप्रापणार्थकः। समीपप्रापणश्च भृत्यर्थमिति कर्मकरशब्दसमभिव्याहाराद्गम्यते / फलितमाह / भृतिदानेनेति // ऋणादेरिति // आदिना करादिसङ्ग्रहः / निर्यातनं प्रत्यर्पणादि / करं विनयते इति // राज्ञो देयो भागः करः। विपूर्वो णीञ् परिशोधनार्थकः / तदाह / राज्ञे देयं भागं परिशोधयतीति // परिगणयति For Private And Personal Use Only