________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् / संविद्रते / संविदते / सम्पृच्छते / संस्वरते / 'अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्' (वा 926) / अर्तीति द्वयोर्ग्रहणम् / अधिौ वियतैरेवेत्युक्तम् / मा समृत, मा समृषाताम् , मा समृषत इति, समात, समार्षाताम्, समार्षत इति च भ्वादेः / इयर्तेस्तु मा समरत, मा समरेताम् , मा समरन्त इति, समारत, समारेताम् , समारन्त इति च / संशृणुते / सम्पश्यते / अकर्मकादित्येव / अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोग: प्रामादिक इत्याहुः / अध्याहारो वा 'इति कथयङ्ग्यः' इति / अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् / शृणु / धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् / प्रसिद्धरविवक्षात: कर्मणोऽकर्मिका क्रिया // भ्यस्तात् ' इत्यतः अदित्यनुवृत्तं षष्ठ्या विपरिणम्यते / शीडो रुडित्यतो रुडिति च। तदाह / वेत्तेः परस्येत्यादिना॥ अर्तिश्रुदृशिभ्यः इति // सम्पूर्वेभ्यस्तङिति शेषः / द्वयोरिति॥ भौवादिकस्य इयर्तेश्चेत्यर्थः / अविधौ त्विति // 'सतिशास्त्यतिभ्यश्च' इत्यत्रेत्यर्थः / मा समृते. ति // 'उश्च' इति सिचः कित्त्वान्न गुणः / 'हृस्वादङ्गात्' इति सिचो लोपः / माङ्योगे मासमृतेत्यादि / माङ्योगाभावे तु समातेत्यादि / इत्येवम्भौवादिकस्य ऋधातोः रूपमित्यर्यः। माड्योगादाङभावः / अथ माझ्योगाभावे आडागमे उदाहरति / समातेति // सम् आ ऋ स् त इति स्थिते 'उश्च' इति कित्त्वाद्गुणनिषेधे ‘आटश्च' इति वृद्धिम्बाधित्वा परत्वात् हुस्वादङ्गादिति सिचो लोपे 'आटश्च' इति ऋकारस्य वृद्धौ रपरत्वे रूपम्। नच सिज्लोपस्यासिद्धत्वादाटश्चेति वृद्धौ कृतायां हूस्वादगादिति सिज्लोपस्याप्रवृत्त्या समाप्टेंत्येवोचितमिति वाच्यम् / 'सिज्लोप एकादेशे सिद्धो वाच्यः' इति वचनेन पूर्व सिज्लोपे पश्चादाटचेति वृद्धेः प्रवृत्तिसम्भवादित्यलम् / इयतॆस्त्विति // श्लुविकरण ऋधातोरित्यर्थः। मा समरतेति // 'सर्तिशास्त्यति' इत्यङ् / तत्र इयर्तेर्ग्रहणादिति भावः / 'ऋदृशोऽङिः' इति गुणः / समारतेति // 'आटश्च' इति वृद्धिः / इति चेति // इयर्तेः रूपमित्यन्वयः / तदेवमर्तिश्रुदृशिभ्यः इत्यत्र अतिप्रपञ्चमुक्त्वा इनुधातोरुदाहरति / संशृणुते इति // दृशेरुदाहरति / सम्पश्यते इति // अकर्मकादित्येवेति // ‘समो गम्यूच्छिभ्याम्' इत्यत्र अकर्मकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसङ्ख्यातवार्तिकेऽस्मिन् तदनुवृत्तेर्युक्तत्वादिति भावः / अत एवेति // प्रामादिक इत्याहुरित्यन्वयः। सकर्मकत्वेनात्मनेपदासम्भवादिति भावः / अध्याहारो वेति // इति कथयङ्ग्य इत्यद्ध्याहारो वेत्यन्वयः / तथाच रक्षांसीति कथयङ्ग्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवः अकर्मकत्वादात्मनेपदानिर्बाधामिति भावः / धातोरिति // धातोरर्थान्तरे वृत्तेरिति धात्वर्थेनोपसङ्ग्रहादिति प्रसिद्धेरिति अविवक्षातः इति चत्वारि वाक्यानि / अकर्मिका क्रियेति सर्वत्रान्वेति / कर्मण इति तु द्वितीयादिषु वाक्येष्व For Private And Personal Use Only