________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 402 सिद्धान्तकौमुदीसहिता [आत्मनेपद मुक्तावुत्तिष्ठते / 'अनूर्ध्व-' इति किम् / पीठादुत्तिष्ठति / 'ईहायामेव' (वा 913) / नेह / ग्रामाच्छतमुत्तिष्ठति / 2692 / उपान्मन्त्रकरणे / (1.3-25) आग्नेय्या आग्नीमुपतिष्ठते। 'मन्त्रकरणे किम्'। 'भर्तारमुपतिष्ठति यौवनेन' / ' उपाद्देवपूजासंगतिकरणमिवकरणपथिष्विति वाच्यम् (वा 914) / आदित्यमुपतिष्ठते / कथं तर्हि ‘स्तुत्यं स्तुतिभिराभिरुपतस्थे सरस्वती' इति / देवतात्वारोपात् / नृपस्य देवतांशत्वाद्वा / गङ्गा यमुनामुपतिष्ठते / उपश्लिष्यतीत्यर्थः / रथिकानुपतिष्ठते / मित्रीकरोतीत्यर्थः / पन्थाः स्रुघ्नमुपतिष्ठते / प्राप्नोतीत्यर्थः / ‘वा लिप्सायामिति वक्तव्यम्' (वा 919) / भिक्षुकः प्रभुमुपतिष्ठते-उपतिष्ठति वा / लिप्सया उपगच्छतीत्यर्थः / 2693 / अकर्मकाच्च / (1-3-26) उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् / भोजनकाल उपतिष्ठते / संनिहितो भवतीत्यर्थः / 2694 / उद्विभ्यां तपः / (1-3-27) देशसंयोगानुकूला क्रिया ऊर्ध्वकर्म / तद्भिनमनूर्ध्वकर्म / तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः / मुक्तावुत्तिष्ठते इति // गुरूपगमनादिना यतते इत्यर्थः / पीठादुत्तिष्ठतीति // उत्पततीत्यर्थः / 'उद ईहायामेव' इति वार्तिकम् / ईहा कायपरिस्पन्दः / ग्रामाच्छतमुत्तिष्ठतीति // लभ्यते इत्यर्थः / उपान्मन्त्रकरणे // मन्त्रकरणकेऽर्थे विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः / आग्नेय्या आग्नीद्रमुपतिष्टते इति // आग्नय्या ऋचा आग्नीद्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः / स्थितेरकर्मकत्वेऽपि उपेत्येतदपक्ष्य सकर्मकत्वम् / केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात् स्थाधातोरात्मनेपदमिति व्याचक्षते। तत्र स्तवः गुणवत्त्वेन सङ्कीर्तनमिति स्तुतशस्त्राधिकरणे प्रपञ्चितमस्माभिः / श्लोकैः राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदन्न / मन्त्रकरणकत्वाभावात् / उपाद्देवपूजा इति वार्तिकम् अमन्त्रकरणकत्वार्थम् / आदित्यमुपतिष्ठते इति // आभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः / कथन्तीति // रघोर्देवतात्वाभावादिति भावः / समाधत्ते / देवतात्वारोपादिति // नृपस्येति // 'नाविष्णुः पृथिवीपतिः' इत्यादिस्मरणादिति भावः / वा लिप्साया. मिति // लिप्साहेतुकार्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः / अकर्मकाच्च // उपात्तिष्ठतेरिति // 'उपान्मन्त्रकरणे' इत्यतः 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः / उद्वि. भ्यान्तपः // अकर्मकादित्येवेति भाष्यम् / दीप्यते इति // दीप्तिमान् भवतीत्यर्थः / For Private And Personal Use Only