________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 400 सिद्धान्तकौमुदीसहिता [आत्मनेपद आशिष्येवेति नियमाथै वार्तिकमित्युक्तम् / सर्पिषो नाथते / सपि स्यादित्याशास्त इत्यर्थः / कथं ‘नाथसे किमु पतिं न भूभृताम्' इति / 'नाधसे' इति पाठ्यम् / हरतेर्गतताच्छील्ये' (वा 908) / गतं प्रकारः / पैतृकमश्वाः अनुहरन्ते / मातृकं गावः / पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः / 'ताच्छील्ये' किम् / मातुरनुहरति / 'किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम्' (907) / हर्षादयो विषया: / तत्र हर्षो विक्षेपस्य कारणम् / इतरे फले / 2688 / अपाच्चतुष्पाच्छकुनिष्वालेखने / (6-1-42) अपात्किरते: सुट् स्यात् / 'सुडपि हर्षादिष्वेव वक्तव्यः' (वा 3706) / अपस्किरते वृषो हृष्टः / कुक्कुटो भक्षार्थी / श्वा आश्रयार्थी च / 'हर्षादिषु' इति किम् / अपकिरति कुसुमम् / इह तङ्सुटौ न / हर्षादिमात्रविवक्षायां कथमिति // भूभृतां पतिं किमु न नाथसे / न याचसे इत्यर्थः / आशिषः अप्रतीतेः कथमात्मनेपदमित्यर्थः / नाधसे इति पाठ्यमिति // तवर्गचतुर्थान्तोऽयम् / “आशिषि नाथः” इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः / “हरतेर्गतताच्छील्ये' इति वार्तिकम् / आत्मनेपदमिति शेषः। गतं प्रकारः इति // वृत्तमित्यर्थः / ताच्छील्यं स्वभावानुसरणम् / गति ताच्छील्यमिति यावत् / गतेति पाठे भावे क्तः। पैतृकमश्वाः इति // पैतृकं वृत्तं अश्वाः स्वभावादनुसरन्तीत्यर्थः / मातृकं गावः इति // अनुहरन्ते इत्यनुषज्यते / मातुरनुहरतीति // अनुकरोतीत्यर्थः / अत्र सादृश्यमानं विवक्षितं, न तु गतिताच्छील्यमिति भावः / किरतेरिति वार्तिकम् / हर्षः प्रमोदः / जीविका जीवनोपायभक्षणम् / कुलायकरणं आश्र. यसम्पत्तिः एषु कृधातोरात्मनेपदमित्यर्थः / ननु कृधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह / हर्षादयो विषयाः इति // धात्वर्थत्वाभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः / तत्रेति // तेषु हर्षादिष्वित्यर्थः / कारणमिति // तथाच हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः / इतरे इति // जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते / हर्षादीनामेवंविधविषयत्वे सत्येवात्मनेपदमिति फलितम् / भाष्ये तथैवोदाहृतत्वादिति भावः। अपा. चतुष्पांत् // 'सुटकात्पूर्वः' इत्यधिकृतम्। 'किरतौ लवने' इत्यतः किरतावित्यनुवर्तते। तदाह। अपात् किरतेस्सुट् स्यादिति // चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् / आलेखनङ्खननम् / सुडपि हर्षादिष्वेवेति वार्तिकम् / अपस्किरते वृषो हृष्टः इति // हर्षाभूमि लिखन् धूल्यादि विक्षिपतीत्यर्थः / कुक्कुटो भक्षार्थीति // अपस्किरते इत्यनुषज्यते। श्वा आश्रयार्थीति // अपस्किरते इत्यनुषज्यते / अपकिरति कुसुममिति // वृषादिरिति शेषः। ह्रियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः / अत्र हर्षाद्यभावान्नात्मनेपदम् / नापि सुट् / तदाह / इह तसुटौ नेति // ननु अपस्किरते वृषो हृष्ट इत्याद्युदाहरणत्रये यदि For Private And Personal Use Only