________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 399 2686 / आङो दोऽनास्यविहरणे / (1-3-20) आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् / विद्यामादत्ते / 'अनास्य-' इति किम् / मुखं व्याददाति / आस्यग्रहणमविवक्षितम् / विपादिकां व्याददाति / पादस्फोटो विपादिका। नदी कूलं व्याददाति / 'पराङ्गकर्मकान निषेधः' (वा 903) / व्याददते पिपीलिकाः पतङ्गस्य मुखम् / 2687 / क्रीडोऽनुसंपरिभ्यश्च / (1-3-21) / चादाङः / अनुक्रीडते / संक्रीडते / परिक्रीडते / आक्रीडते / अनोः कर्मप्रवचनीयान्न / उपसर्गेण समा साहचर्यात् / माणवकमनुक्रीडति / तेन सहेत्यर्थः / तृतीयार्थे' (सू 549) इत्यनोः कर्मप्रवचनीयत्वम् / 'समोऽ कूजने' (वा 904) / संक्रीडते / कूजने तु संक्रीडति चक्रम् / 'आगमेः क्षमायाम्' (वा 905) / ण्यन्तस्येदं ग्रहणम् / आगमयस्व तावत् / मा त्वरिष्ठा इत्यर्थः / 'शिक्षेर्जिज्ञासायाम्' (वा 906) / धनुषि शिक्षते / धनुर्विषये झाने शक्तो भवितुमिच्छतीत्यर्थः / 'आशिषि नाथः (वा 910) आङोदो।।आस्यविहरणं मुखविकसनम् / दा इत्यस्य दः इति पञ्चमी। तदाह / ददातेर्मुखविकसनादन्यत्रेति // विद्यामादत्ते इति // गृह्णातीत्यर्थः। दालो अित्त्वेऽप्यकत्रभिप्रायाथमिदम् / अविवक्षितमिति || अविहरणे इत्येतावदेव विवक्षितमित्यर्थः / विपादिकां व्याददातीति // क्षारौषधादिना विदारयतीत्यर्थः / अत्र आस्यविहरणाभावेऽपि वि. कसनसत्वान्नात्मनेपदमिति भावः / नदी कूल व्याददातीति | भिनत्तीत्यर्थः / अत्रापे विकसनसत्त्वादास्यविहरणाभावेऽपि नात्मनेपदम् / पराङ्गकर्मकान्न निषेधः इति // वार्तिकम् / पतङ्गस्येति // पक्षिणो मुखम्भक्षणाय विकासयन्तीत्यर्थः। क्रीडोऽनु॥ चादाङः इति॥ तथाच अनु सम् परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः / 'अनोऽकर्मप्रवचनीयान' इति वार्तिकम्। तदिदं न्यायसिद्धमित्याह / उपसर्गेण समेति // 'समोऽकूजने' इति वार्तिकम् / समः परस्मात् अकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः / कूजने तु सं. क्रीडति चक्रमिति // कूजतीत्यर्यः / आगमेः क्षमायामिति // आत्मनेपदमिति शेषः / वार्तिकमिदम् / ण्यन्तस्येदं ग्रहणमिति // भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः / आ. गमयस्व तावदिति // किञ्चित्कालं सहखेत्यर्थः / आडुपसर्गवशात् गमधातुः क्षमायां वर्तते / 'हन्त्यर्थाश्च' इति चुरादिगणसूत्रेण स्वार्थे णिच् / चुरादेराकृतिगणत्वाद्वा / मा त्वरिष्ठाः इति // फलितार्थकथनम् / 'शिक्षेर्जिज्ञासायाम्' इत्यपि वार्तिकम् / धनुषि शिक्षते इति // वैषयिक आधारे सप्तमी / शकिस्सन्नन्तः। 'सनि मीमा' इति इस् / अभ्यासलोपश्च / तदाह। धनुर्विषये इत्यादि // 'शिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम् / अनुदात्तेत्त्वादेव सिद्धेरिति भावः / For Private And Personal Use Only