________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 सिद्धान्तकौमुदीसहिता [भ्वादि 2246 / एकाच उपदेशेऽनुदात्तात् / (7-2-10) उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येड् न स्यात् / गीयाणां हकारस्य च षट्त्वात् चवर्गीयाणां पञ्चत्वान्न यथासंख्यम् , नापि स्थानत आन्तर्यम् , कण्ठतालुस्थानभेदात् / आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् / हकारचवर्गयोस्तु नास्त्येव तत्। अतो बाह्यप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम्। तत्र प्रथमस्य कवगांयस्य प्रथम एव चवर्गीयो भवति। अघोषश्वासविवाराल्पप्राणप्रयत्नसाम्यात्।नतु द्वितीयः। महाप्राणत्वात्। नापि तृतीयपञ्चमौ / घोषसंवारनादप्रयत्नत्वात् / नापि चतुर्थः / घोषसंवारनादमहाप्राणप्रयत्नत्वात् / तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति / अघोषश्वासविवारमहाप्राणप्रयत्नत्वात् / नतु प्रथमः / अल्पप्राणत्वात् / नापि तृतीयपश्चमी / घोषसंवारनादाल्पप्राणप्रयत्नत्वात् / नापि चतथः / अघोषसंवारनादप्रयत्नत्वात् / तथा ततीयस्य कवर्गस्य तृतीय एव चवर्गीयो भवति / घोषसंवारनादाल्पप्राणप्रयत्नत्वात् / न तु प्रथमः / अघोषश्वासविवारप्रयत्नत्वात् / अत एव न द्वितीयोऽपि / महाप्राणप्रयत्नत्वाच्च / नापि चतुर्थः / महाप्राणत्वात् / नापि पञ्चमः / घोषसंवारनादाल्पप्राणसाम्येऽपि अनुनासिकतया भेदात् / तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति / घोषसंवारनादमहाप्राणप्रयत्नत्वात् / न तु प्रथमः / अघोषश्वासविवाराल्पप्राणप्रयत्नत्वात् / नापि द्वितीयः / अघोषविवारश्वासप्रयत्नत्वात् / नापि तृतीयपञ्चमौ / अल्पप्राणत्वात् / पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वात् अकार एव / हकारस्य तु घोषसंवारनादमहाप्राणवतः तादृशो वर्गचतुर्थ एव झकार इति विवेकः / प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य याणि रेफः / तदाह / एधाञ्चक्र इति // एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा क्रियेत्यर्थः / एधाञ्चक्रात इति // कृलो लिट: आतामि टेरेत्वम् / द्विवंचनेऽचीति यणि निषिद्धे कृ इत्यस्य द्वित्वे उरदत्वम् / हलादिश्शेषः। चर्वम् / यण् / न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याचो द्वित्वनिमित्तत्वाभावात् कथमिह द्विवचनेऽचीति यण निषेध इति वाच्यम् / साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः / एधाश्चक्रिर इति // झस्य इरेच् / कृ इत्यस्य द्वित्वादि पूर्ववत् / अथ लिटि थासस्सेभावे कृ इत्यस्य द्वित्वादी एधाञ्चक से इति स्थिते आधधातुकस्येड्वलादेरिति इडागमे प्राप्ते / एकाच उपदेश इति // ऋत इद्धातोरित्यतः धातोरित्यनुवर्तते / नेड्वशिकृतीत्यतः नेति च / तदाह / उपदेशे यो धातुरेकाजिति // एक: अच् यस्येति बहुव्रीहिः / आर्धधातुकस्येति // यद्यपीदं न श्रुतम् / नाप्यनुवृत्तिलभ्यम् / तथाप्यार्थिकमिदम् / आर्धधातुकस्यैवेटः प्राप्तेः / वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् / नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेश इत्येतदेकाच इत्यत्रान्वेति तदा कर्तुमित्यत्र इण्णिषेधो न स्यात् / कृञ्धातोरूदृदन्तरित्यादिना अनुदात्तत्वस्य वक्ष्यमाणत्वेऽपि तुमुन्प्रत्यये कृते नित्यादिनित्यमित्याद्युदात्तत्वात् / यदि तु उपदेश इत्येतत् अनु For Private And Personal Use Only