________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 396 सिद्धान्तकौमुदीसहिता -प्रापयियिषति। उरुं विवारयिषति-वारिरयिषति-वारयियिषति। बाढं सिसाधयिषतीत्यादिरूपत्रयम् / षत्वं तु नास्ति / 'यङ्सनण्यन्तात्सन' / बोभूयिषयिषति / यणिच्सन्नन्ताणिच् / बोभूययिषयतीत्यादि / इति तिङन्तप्रत्ययमालाप्रकरणम् / प्रापयिषतीत्यादि रूपत्रयमित्यर्थः / उरुमिति // उरुमाख्यातुमाचक्षाणम्प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दादाचष्टे इत्यर्थे णिचि ‘प्रियस्थिर' इति वरादेशे उपधावृद्धौ वारि इति ण्यन्तान्सनि इटि णिचो गुणायादेशयोषत्वे वारयिषेति सन्नन्तम् / माधवमते वृद्ध्यङ्गीकारात् वारि इत्यस्मात् हेतुमण्ण्यन्तात् सनि इटि प्रथमणेोपे षत्वे वारयिषेत्येव रूपम् / तत्र यथेष्टनामधातुध्वित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादि रूपत्रयमित्यर्थः। बाढं सिसाधयिषतीति / बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् / अन्तिकबाढयोरिति साधादेशः। तत्र सकारस्यादेशत्वाभावान्न षत्वम् / तदाह / षत्वन्तु नास्तीति // बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति / यङिति // भूधातोरिति शेषः / द्वित्वे बोभूयेति स्थितम् / सन्निति // इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् / ण्यन्तात् सन्निति // बोभूयिषेत्यस्मात् हेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् / तस्मात् सनि इटि णिचो गुणायादेशयोः षत्वे बोभूयिषयिषेति स्थितम् / ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् / अनभ्यासस्येत्युक्तेर्न पुनर्द्वित्वम् / अथ बोभूययिषतीत्यत्र प्रक्रियान्दर्शयति / यङिति // भूधातोरिति शेषः / द्वित्वे बोभूयेति स्थितम् / णिजिति // बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् / सन्नन्ताणिजिति / / बोभूयि इत्यस्मात्सनि इटि णिचो गुणायादेशयोः षत्वे बोभूययिषेति स्थितम् / तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि पररूपे बोभूययिषयतीति रूपं सिद्धम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम्प्रत्ययमाला समाप्ता / For Private And Personal Use Only