SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 392 सिद्धान्तकौमुदीसहिता [नामधातु असिस्वत् / बहून्भावयति / बहयतीत्यन्ये / स्रग्विणं स्रजयति / संज्ञापूर्वकत्वान्न वृद्धिः / श्रीमती श्रीमन्तं वा श्रययति / अशिश्रयत् / पयस्विनी पयसयति / इह टिलोपो न / तदपवादस्य लुकः प्रवृत्तत्वात् / स्थूलं स्थवयति / दूरं दवयति / कथं तर्हि 'दूरयत्यवनते विवस्वति' इति / दूरमतति अयते वा दूरात् , दूरातं कुर्वतीत्यर्थः / युवानं यवयति-कनयति / 'युवाल्पयो:-' (सू 2019) इति वा कन् / अन्तिकं नेदयति / बाढं अजादेशत्वादिति भावः / असिस्वदिति // अर्लोपस्य अजादेशत्वन्नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाभावात् टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः / बहूनिति // बहुशब्दाण्णिचि णाविष्ठवदित्यतिदेशात् 'बहोर्लोपो भूच बहोः' इति बहोभूभावः / इष्ठस्य यिट्चेति यिडागमस्तु न / णाविष्ठवदिति सप्तम्या इष्टनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः / बहयतीति // यिडभावे तत्सन्नियोगशिष्टस्य भूभावस्याप्यभावादिति भावः / सृजयतीति // इष्टवत्त्वात् ‘विन्मतोः' इति लुक् / नचाजादी गुणवचनादेवेति इष्टन्प्रत्ययः स्रग्विन्शब्दात् दुर्लभ इति इष्टवत्त्वमत्र कथमिति शङ्कयम् / 'विन्मतोः' इति लुग्विधानेन स्रग्विन्शब्दादिष्टवत्त्वसिद्धेरिति भावः / उपधावृद्धिमाशङ्कय आह / संज्ञापूर्वकत्वान्न वृद्धिरिति॥ णाविष्ठवदित्यनेनातिदेशेन विनो लुकस्सत्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः / श्रीमतीमिति // श्रीमतीशब्दाणिधि णाविष्टवदित्यतिदेशेन 'भस्याढे' इति पुंवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृद्ध्यायादेशयोः श्रायि इत्यस्मात् लडादीति भावः। अशिश्रयदिति॥ णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाहस्व इति माधवः / मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वानोपधाहस्वः इत्यन्ये / पयस्विनीमिति // णिचि इष्टवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः / पयसयतीत्यत्र इष्ठवत्त्वात् टिलोपमाशङ्कय आह / इह टिलोपो नेति // कुत इत्यत आह / तदपवादस्येति // न च टिलोपम्बाधित्वा मतुपो लुकि कृते पयसप्टेर्लोपः कुतो न स्यादिति वाच्यम् / सत्यपि सम्भवे बाधनमिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् / स्थवयतीति॥ स्थूलशब्दात् णिचि इष्टवत्त्वात् स्थूलदूरेति स्थूलशब्दस्य यणादेलोपे ऊकारस्य गुणे अवादेशे स्थवि इत्यस्मालडादीति भावः / गुणे ओकारस्याचो णितीति वृद्धिस्तु न शङ्कयम् / अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः / दवयतीति // पूर्ववद्यणादिलोपो गुणश्च / कथन्तीति // स्थूलदूरति यणादिलोपस्य टिलोपापवादत्वादिति भावः / दूरमततीति // 'अत सातत्यगमने' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति क्विपि दूरादिति रूपम् / अय गतावित्यस्मात् क्विपि 'लोपो व्योः' इति यलोपे ' हूस्वस्य पिति' इति तुकि दूरादित्येव रूपम् / तस्माण्णौ टिलोपे दूरि इति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः। तदाह / दूरातं कुर्वतीत्यर्थः इति॥ कुर्वतीति सप्तम्यन्तम् / यवयतीति॥ युवन्शब्दात् णौ स्थूलदूरेति वनो यणादेर्लोपः। पूर्वस्य उकारस्य गुणे अवादेशः / यवि इत्यस्माल्लडादि / कनयतीति // युवन्शब्दस्य कनादेशपक्षे रूपम् / तदाह / युवाल्पयोरिति // नेदयतीति // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy