________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 386 सिद्धान्तकौमुदीसहिता [नामधातु र्थम् / मुण्डयति माणवकम् / मिश्रयत्यन्नम् / श्लक्ष्णयति वस्त्रम् / लवणयति व्य जनमिति / हलिकल्योरदन्तत्वार्थम् / सत्यस्यापुगर्थम् / केषांचित्तु प्रपञ्चार्थम् / सत्यं करोत्याचष्टे वा सत्यापयति / ‘अर्थवेदयोरप्यापुग्वक्तव्यः' (वा 1758) / अर्थापयति / वेदापयति / पाशं विमुञ्चति विपाशयति / रूपं पश्यति रूपयति / वीणयोपगायत्युपणियति / तूलेनानुकुष्णात्यनुतूलयति / तृणागं तूलेनानुघट्टयतीत्यर्थः / श्लोकैरुपस्तौति उपश्लोकयति / सेनयाभियाति अभिषेणयति / ' उपसर्गात्सुनोति-' (सू 2270) इति षः / अभ्यषेणयत् / 'प्राक्सितात्-' (सू 2276) इति ष: / अभिषिषेणयिषति / 'स्थादिष्वभ्यासेन च-' (2277) इति ष: / लोमान्यनुमाटि अनुलोमयति / 'त्वच संवरणे' घः। त्वचं गृह्णाति त्वचयति / चर्मणा संनह्यति सञ्चमयति / वर्ण गृह्णाति वर्णयति / चूणैरवध्वंसते अवचूर्णयति / इष्ठवदित्यतिदेशात्पुंवद्भावादयः / एनीमाचष्टे एतयति / दरदमाचष्टे दारदयति / मुण्डङ्करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिजिति भावः / यदा तु प्रकरणादिना माणवकत्वादिविशेषणं ज्ञाप्यते तदैव मुण्डयतीति णिजिति भावः / 'सुप आत्मनः' इति सूत्रभाष्ये तु मुण्डय माणवकमित्यत्र गमकत्वाणिच् / महान्तं पुत्रमिच्छतीत्यादौ तु अगमकत्वात् न क्यजित्युक्तम् / तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थि. तम् / श्लक्ष्णयति बस्त्रमिति // निर्मलं करोतीत्यर्थः / लवणयति व्यञ्जनमिति // लवणयुक्तं करोतीत्यर्थः / हलिकल्योरिति // एवञ्च ताभ्यां सापेक्षाभ्यां न णिच् / तद्रहणस्य अदन्तत्वनिपातने चरितार्थत्वादिति भावः / ननु सत्यशब्दात् तत्करोति इत्या. दिनैव णिसिद्धेः 'सत्याप' इति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह / सत्यस्यापुगर्थमिति / केषाञ्चिदिति // पाशादीनामित्यर्थः / सत्यापयतीति // आपुग्विधिसामर्थ्यान्न टिलोपः / पाशं विमुञ्चतीत्यादौ 'प्रातिपदिकाद्धात्वर्थे ' इति णिच् / अभिषिषेणयिषतीति // आभिषेणि इति ण्यन्तात्सनि रूपम् / ननु त्वचङ्ग्रह्णाति त्वचयतीति कथम् / त्वच्छब्दाचकारान्ताण्णिाचे टिलोपे त्वचयतीत्यापत्तेरित्यत आह / त्वचेति // 'त्वच संवरणे' इत्यस्मात् 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः / पुंवद्भावादयः इति // आदिना रभावटिलोपादिग्रहणम् / एतयतीति // 'भस्याढे' इति पुंवत्त्वस्य इष्टनि प्रवृत्तेः णावपि तस्यातिदेशात् 'वर्णादनुदात्तात् ' इति स्त्रीप्रत्ययस्य तत्सन्नियोगशिष्टनत्वस्य च निवृत्ती एतशब्दे तकारादकारस्य टिलोप इति भावः / नन्वेनीशब्दाण्णौ टिलोपेन स्त्रीप्रत्ययनिवृत्ती तत्सन्नियोगशिष्टनत्वस्यापि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसत्वात् पुंवद्भावे उदाहरणान्तरमाह / दरदमिति // दरदिति कश्चिद्राजा, तस्यापत्यं दारदः 'यञ्मगध' इत्यण् / स्वयपत्ये तु दरदोऽपत्यं स्त्री दरत् 'अतश्च' इत्यणो लुक् / तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टव For Private And Personal Use Only