________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 383 रोमन्थतपोभ्यां कर्मभ्या क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् / रोमन्थं वर्तयति रोमन्थायते / 'हनुचलने इति वक्तव्यम्' (वा 1762) / चर्वितस्याकृष्य पुनश्चर्वणमित्यर्थः / नेह / कीटो रोमन्थं वर्तयति / अपानप्रदेशानिस्सृतं द्रव्यमिह रोमन्थः / तदनातीत्यर्थ इति कैयट: / वर्तुळं करोतीत्यर्थ इति न्यासकारहरदत्तौ / 'तपसः परस्मैपदं च' (वा 1766) / तपश्चरति तपस्यति / 2672 / बाष्पोष्मभ्यामुहमने / (3-1-16) आभ्यां कर्मभ्यां क्यङ् स्यात् / बास्पमुद्वमति बाष्पायते / ऊष्मायते / फेनाञ्चेति वाच्यम्' (वा 1764) / फेनायते / 2673 / शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे / 3-1-17) एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् / शब्दं करोति शब्दायते / पक्षे 'तत्करोति-' इति णिजपीष्यत इति न्यासः / शब्दयति / 'सुदिनदुर्दिननीहारेभ्यश्च' (वा 1736-37) / सुदिनायते / सङ्ख्यमन्वयः / तदाह / रोमन्थतपोभ्यामिति // रोमन्थमिति // उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् / उद्गीर्णस्य उदरादुपरि कण्ठद्वारा निर्गतस्य निगीर्णस्य अपानद्वारा निर्गतस्य च मन्थः चर्वणं रोमन्थ इत्यर्थः / वर्तयतीति // आवर्तयतीत्यर्थः / हनुचलने इति // हनु तालु तच्चलने सत्येव अयं विधिरित्यर्थः / तथाच उदरगतभक्षितं द्रव्यन्तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात् क्यङिति फलितम् / तदाह / चर्वितस्येति // हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः / कीटः इति // इह हनुचलनाभावान क्यङिति भावः / तदेवोपपादयति / अपानेति // 'तपसः परस्मैपदञ्च' इति वार्तिकम् / तपश्शब्दः कर्मकारकवृत्तिः / पूर्वसूत्राच्चरणे क्यडं लभते / ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव लभते इत्यर्थः / तपस्यतीति // प्रातिपदिकादेवास्य क्यडुत्पत्तेरन्तर्वर्तिविभक्त्यभावात् 'न: क्ये' इति नियमाच्च पदत्वाभावान्न रुत्वमिति भावः / बाप्पोष्मभ्यामुद्वमने // आभ्याङ्कर्मभ्यामिति // 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणमनुवर्तते इति भावः / कर्मकारकवृत्तिभ्यामित्यर्थः / फेनायते इति // फेनमुद्वमतीत्यर्थः / शब्दवैर // करणं क्रिया / तदाह / करोत्यर्थे इति // तत् करोतीति णिचोऽपवादः / पक्षे इति // कदाचिदित्यर्थः / न्यासः इति // भाष्यानारूढत्वमत्र अरुचिबीजम् / “सुदिन For Private And Personal Use Only