________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 सिद्धान्तकौमुदीसहिता [नामधातु इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति / तद्भाष्यवार्तिकविरुद्धम् / तस्मात्तेभ्यः क्यडेव / श्यामायते / दुःखादयो वृत्तिविषये तद्वति वर्तन्ते / लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् / लोहिनीयतिलोहिनीयते। 2670 / कष्टाय क्रमणे / (3-1-14) चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् / कष्टाय क्रमते कष्टायते / पापं कर्तुमुत्सहते इत्यर्थः / ‘सत्रकक्षकष्टकृच्छ्गहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' (1761) / कण्वं पापम् / सत्रादयो वृत्तिविषये पापार्थाः / तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् / पापं चीकिर्षतीत्यस्वपदविग्रहः सत्रायते / कक्षायते इत्यादि। 2671 / कर्मणो रोमन्थतपोभ्यां वर्तिचरोः। (3-1-15) इत्यत आह / डाजन्तादिति // तद्भाष्येति // 'भृशादिष्वितराणि' इत्युक्तवार्तिकं तद्भाध्यविरुद्धमित्यर्थः। तस्मादिति // उक्तवार्तिकभाध्यविरोधात् तेभ्यः श्यामादिभ्यः भृशादित्वलक्षण: क्यडेव नतु क्यषित्यर्थः। ततश्च ‘वा क्यषः' इत्यस्याप्रवृत्तेः ङित्त्वादात्मनेपदमेवेति मत्वा आह। श्या मायते इति। श्यामो भवतीत्यर्थः। ननु देवदत्तस्सुखायते इति कथं / देवदत्तस्य सुखत्वाभावादित्यत आह। सुखादयः इति॥ श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनाः ते सुखादिगुणवति वर्तन्ते इत्यर्थः / एवञ्च सुखायते इत्यत्र सुखवान् भवतीत्यर्थः / एवं दुःखायते इत्यादावपि / ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात् स्यादित्यत आह / लिङ्गविशिष्टेति // कष्टाय क्रमणे // क्रमणशब्दं विवृणोति / उत्साहे इति // अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः। क्रियार्थोपपदस्येति चतुर्थीति मत्वा आह। पापकर्तुमिति // क्रमते इत्यत्र 'वृत्तिसर्गतायनेषु क्रमः' इति तङ् / 'कण्वचिकीर्षायाम्' इत्यत्र कण्वपदं व्याचष्टे / कण्वं पापमिति // सत्रादिशब्दान् विवृणोति / सत्रादयः इति // द्वितीयान्तेभ्यः इति // चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादिति भावः / कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः / केचित्तु कण्वेत्यविभक्तिकम् / कण्ववर्तिभ्यः इति व्याचक्षते / अस्वपदविग्रहः इति // वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः / इदं कण्वशब्दादन्यत्रैव / कष्टाय क्रमते इति तु स्वपदविग्रहोऽस्त्येव / भाष्ये एवं विग्रहं प्रदय सत्रादिषु विग्रहाप्रदर्शनादित्याहुः / कर्मणो रोमन्थ // वृतुधातोर्ण्यन्तात् 'धात्वनिर्देशे इग्वक्तव्यः' इति इकि वर्तिशब्दः / आवर्तनमर्थः / चरेस्सम्पदादित्वाद्भावे क्विप् / वर्ति चर अनयोर्द्वन्द्वात्सप्तमी। आवर्तने चरणे चेति लभ्यते / कर्मशब्देन कर्मकारकं विवक्षितम् / द्वित्वे एकवचनम् / तथाच कर्मकारकवृत्तिभ्यां रोमन्थतपश्शब्दाभ्यामिति लभ्यते / यथा For Private And Personal Use Only