________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 2668 / लोहितादिडाभ्यः क्यष् / (3-1-13) लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष स्यात् / 2669 / वा क्यषः / (1-3-90) क्यषन्तात्परस्मैपदं वा स्यात् / लोहितायति--लोहितायते / अत्र 'अच्वेः' इत्यनुवृत्त्या अभूततद्भावविषयत्वं लब्धम् / तच्च लोहितशब्दस्यैव विशेषणम् / न तु डाचोऽसम्भवात्। नाप्यादिशब्दग्राह्याणाम् / तस्य प्रत्याख्यानात् / तथाच वार्तिकं-'लोहितडाभ्यः क्यध्वचनं, भृशादिष्वितराणि' (वा 1729-- 30) इति / न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत / उच्चारणसामर्थ्यादिति वाच्यम् / तस्यापि भाष्ये प्रत्याख्यानात् / पटपटायति-पटपटायते / कृभ्वस्तियोगं विनापीह डाच् / डाजन्तात्क्यषो विधानसामर्थ्यात् / यत्तु लोहितश्यामदुःखानि हर्षगर्वसुखानि च / मूर्छानिद्राकृपाधूमा: करुणा नित्यचर्मणी / यथा स्यात् नान्यत्पररूपमिति लभ्यते इत्यपि षष्टाध्याये 'ओमाडोश्च' इति सूत्रे 'आटश्च' इति सूत्रे च भाष्ये स्थितमित्यर्थः / एवञ्च एतद्वार्तिकप्रत्याख्यानपरस्सौत्रश्चकारस्तद्भाष्यञ्चात्र ज्ञापकमित्युक्तम्भवति / लोहितादि // भवत्यर्थे इति // 'भृशादिभ्यो भुवि' इत्यतः भुवि इति अनुवृत्तरिति भावः। वा क्यषः // परस्मैपदमिति // ‘शेषात्कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः / लोहितायतीति / / अलोहितो लोहितो भवतीत्यर्थः / अत्रेति // 'लोहितादि' इति सूत्रे इत्यर्थः / तञ्चेति // अभूततद्भावविषयत्वमित्यर्थः / असम्भवा. दिति // अव्यक्तानुकरणात् डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणस्य भङ्गापत्तेरिति भावः / नाप्यादिशब्दग्राह्याणामिति // श्यामादिशब्दानामिति शेषः / तस्येति // आदिग्रहणस्येत्यर्थः / आदिग्रहणप्रत्याख्याने प्रमाणं दर्शयति / तथाचेति // आदिग्रहणमपनीय लोहितशब्दात् डाजन्तेभ्यश्च क्यष्वचनकर्तव्यम् / इतराणि लोहितादिगणपठितानि श्यामादीनि प्रातिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः / एवञ्च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम् / तस्यापीति // आदिग्रहणस्येव क्यषः ककारस्यापि भाष्ये प्रत्याख्यातत्वादित्यर्थः / पटपटायतीति // अव्यक्तानुकरणात् यजवरार्द्धादनिती डाजिति पटच्छब्दात् डाचि विवक्षिते सति 'डाचि विवक्षिते द्वे बहुलम्' इति द्वित्वे 'नित्यमार्गेडिते डाचि' इति पूर्वखण्डान्तस्य तकारस्य उत्तरखण्डादेः पकारस्य च पररूपे एकस्मिन् पकारे द्वित्वा' हिलोपे पटपटाशब्दात् डाजन्तात् क्यषि तदन्ताल्लडादीति भावः / 'अभूततद्भावे' इति तु नात्र सम्बद्ध्यते इत्युक्तम् / नापटच्छब्दः पटच्छब्दो भवतीति युज्यते / ननु कृस्वस्तियोगाभावादिह कथं डाजित्यत आह / कृभ्वस्तियोगं विनापीति // भवार्थसत्तामात्रेणेत्यर्थः / कुन For Private And Personal Use Only