________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 सिद्धान्तकौमुदीसहिता [नामधातु त्वादेशेनापहृतं तवैव पृथक्कृतिः / एवं च ‘आ ऊढः ओढः' स इवाचर्य ओढायित्वा / अब ‘उन्मनाय्य, अवगल्भ्य' इतिवन्न ल्यप् / ज्ञापकस्य विशेषविषयत्वे षाष्ठवार्तिकं तद्भाष्यं च प्रमाणम् / तथाहि / 'उस्योमाझ्वाट: प्रतिषेधः' (3636) / उस्योमाङोश्च परयोराटः पररूपं नेत्यर्थः / उस्रामैच्छत् औस्रीयत् / औङ्कारीयत् / औढीयत् / 'आटश्च' (सू 269) इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्ठे स्थितम् / णस्य ज्ञापकस्य एवंविधत्वादिति भावः / ततः किमित्यत आह / एवञ्चेति // ओढायित्वेति // ओढशब्दात् भृशादित्वात् क्यङि ओढायेत्यस्मात् क्यडन्तात् क्वाप्रत्यये अतो लोपे रूपम् / अत्रेति // अत्र न ल्यबित्यन्वयः / क्यङि विवक्षिते आङः एकादेशेनापहृतत्वेन पृथक्करणाभावे सति तस्य आङः त्वाप्रत्ययान्तेन समासाभावान ल्यबिति भावः / उन्मनाय्य, अवगल्भ्यवदिति व्यतिरेकदृष्टान्तः / उन्मनस्शब्दात् भृशादित्वादाचारे क्यङि सकारलोपे 'अकृत्सार्व' इति दीर्धे उन्मनायेत्यस्मात् को ल्यपि अतो लोपे उन्मनाय्येति रूपम् / अबगल्भशब्दात् आचारेऽवगल्भेति क्विबन्तात् क्वो ल्यपि रूपम् / अत्र उदित्यस्य अवेत्यस्य च उपसर्गस्वरूपस्य अनपहृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्वान्तेन समासे सति ल्यबुचितः। इह तु ओढायित्वेत्यत्र न तथेति व्यतिरेकदृष्टान्तोऽयम / ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति / झापकस्येति // घाष्ठं वार्तिकं दर्शयति / उस्योमाक्ष्विति // उसि ओम् आङ् एषान्द्वन्द्वः / षष्ठस्य प्रथमे पादे 'ओमाङोश्च' इति सूत्रे इदं वार्तिकं पठितम् / तद्याचष्टे / उस्योमाङोश्च परयोरिति // 'एङि पररूपम्' इत्यतः पररूपग्रहणानु वृत्तिं मत्वा आह / पररूपं नेति // उसि तावदुदाहरति / औस्त्रीयदिति // उस्रामात्मन ऐच्छदित्यर्थे 'सुप आत्मनः' इति क्यजन्ताल्लङि उस्रायशब्दादशात्प्रागाटि कृते 'उस्यपदान्तात्' इति पररूपं प्राप्तमनेन निषिध्यते / अर्थवद्रहणपरिभाषा त्वनित्या / अस्मादेव भाष्योदाहरणात् / अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात् / आगमसहितस्य युस एवार्थवत्त्वादिति भावः। ओमि परतः उदाहरति / औङ्कारीयदिति // ओङ्कारशब्दात् क्यजन्ताल्लङि अङ्गस्य आटि कृते 'ओमाङोश्च' इति पररूपं प्राप्तमनेन निषिद्ध्यते / आङि उदाहरति / औढीयदिति // आ ऊढः ओढः तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृते 'ओमाङोश्च' इति पररूपं प्राप्तमनेन निषिद्ध्यते / उदाहरणत्रयमिदं भाष्ये स्थितम् / तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि क्यचि पृथक् स्यात् तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याप्रसक्तेराङिः पररूपप्रतिषेधो व्यर्थः स्यात् / तथाच उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात् पृथक्करणाभावादोढशब्दात् प्रागाडागमे सति आडि पररूपप्राप्तेस्तनिषेधोऽर्थवान् भवति / अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमावु' इत्याङ्ग्रहणम् औढीयदिति तदुदाहरणपरभाध्यञ्च अत्र प्रमाणमिति भावः / ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह / आटश्चेति चशब्देनेति // ‘आटश्च' इति चकारः पुनर्वृद्धिविधानार्थः / तथाच आटोऽचि वृद्धिरेव HHHHHHHHHin For Private And Personal Use Only