________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [नामधातु औ / वृद्धिः। अतुसादिषु तु 'आतो लोप इटि च' (सू 2372) इत्याल्लोपः / मालेवाचरति मालाति / लिङ्गविशिष्टपरिभाषयकादेशस्य पूर्वान्तत्वाद्वा क्विप् / मालाञ्चकार / लङि / अमालात् / अत्र हल्ङयादिलोपो न / ङीप्साहचर्यादापोऽपि सोरेव लोपविधानात् / इट्सकौ / अमालासीत् / कविरिव कवयति / आशीलिङि / कवीयात् / ‘सिचि वृद्धिः-' (सू 2297) इत्यत्र धातो:' इत्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः / अकवयीत् / माधवस्तु नामधातोरपि वृद्धिमिच्छति / अकवायीत् / विरिव दीर्घ च आ अ इति स्थिते 'आत औ णलः' इत्यौत्वमिति भावः / वृद्धिरिति // आ औ इति स्थिते 'वृद्धिरेचि' इति वृद्धिरित्यर्थः / तथा च औ इति रूपं परिनिष्ठितम् / अतुसा. दिष्विति // अ अतुस् , अ उस् , इति स्थिते द्वित्वे पररूपे ‘अत आदेः' इति दीर्धे आतो लोप इत्यर्थः / अतुः / उः / इति प्रत्ययमात्रं शिष्यते। थलि इटि द्वित्वे दीर्घ आल्लोपे, इथ / अथुः / अ। औ। इव / इम / वस्तुतस्तु 'कास्यनेकाज्ग्रहणम्' इति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् / कासेश्च प्रत्ययान्ताच्च आमिति लभ्यते। अत एव 'आचारेऽवगल्भक्तीबहोडेभ्यः' इति वार्तिके अवगल्भाञ्चक्रे इत्यादी अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपि 'कास्प्रत्ययात्' इत्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् / इता / इष्यति / अतु-अतात् / अताम् / अन्तु / अ-अतात् / अतम् / अत / आनि / आव / आम / आत् / आताम् / आन् / आः। आतम् / आत / आम् / आव / आम / विधिलिङि एत् / एताम् / एयुः / ए: / एतम् / एत / एयम् / एव / एम। आयात् / आयास्ताम् / आयासुः / लुडि 'इट ईटि' इति सिज्लोपे 'आटश्च' इति वृद्धिं बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् , ऐष्टाम् , ऐषुः, इत्यादीति केचित् / आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याभावादाट नेत्यन्ये / ईत् / ईस्ताम् / इत्यादि / ऐष्यत् / वस्तुतस्तु आकारान्तेभ्यः आचारे क्विप् नास्त्येवेति विश्वपाशब्दनिरूपणे प्रपश्चितम् / ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावात्ततः कथं क्विवित्यत आह / लिङ्गविशिष्टेति // ङीप्साहचर्यादिति // यन्तादाचारक्विबन्तात् गौरीशब्दात् लुङि अगौरयीत् इत्यादौ तिस्योङयन्तात्परत्वासम्भवात् तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः / कवयतीति // शपि गुणायादेशौ। कवी. यादिति // ‘अकृत्सार्व' इति दीर्घः / लुडि अकवि ईत् इति स्थिते सिचि वृद्धिमाशङ्कय आह / सिचि वृद्धिरित्यति // सिचा धातोराक्षेपतो लाभेऽपि 'ऋत इद्धातोः' इत्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः / कैयटादयः इति // ‘इको गुणवृद्धी' इति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः / माधवस्त्विति // 'सिचि वृद्धिः' इत्यत्र 'ऋत इद्धातोः' इत्यतो धातुग्रहणानुवृत्तौ मानाभावेन धातुरेव यो धातुरित्युक्तार्थालाभादिति तदाशयः / वस्तुतस्तु 'इको गुणवृद्धी' 'वदव्रजहलन्तस्याचः' इत्यादिसूत्रस्थभाष्ये सिचि परतः एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्यः आचारक्विप नास्त्येवेति For Private And Personal Use Only