________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 375 तङ् नेति तूचितम् / 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' (वा 1722) / पूर्ववार्तिकं तु अनुबन्धासङ्गार्थ तत्र किबनूद्यते / प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते / तेन पदकार्य न / कृष्ण इवाचरति कृष्णति / अतो गुणे' (सू 191) इति शपा सह पररूपम् / अ इवाचरति अति / अत: / अन्ति / प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् / औ / अतुः / उ: / द्वित्वम् / 'अतो गुणे' (सू 191) / अत आदेः' (सू 2248) इति दीर्घः णल / उपसर्गान्तरेति // प्रगल्भानुगल्भादिशब्दादित्यर्थः / क्यङेवेति // न तु क्विबित्यर्थः / माध. वादयः इत्यस्वरसोद्भावनम् / तीजमाह / तङ् नेति तूचितमिति // केवलादुपसर्गान्तरविशि टाच्च गल्भशब्दात् अनेन विवभावेऽपि ‘सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन विप् निर्वाधः / परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः / सर्वप्रातिपदिकेभ्यः इति // आचारे इति शेषः। नन्वनेनैव वार्तिकेन सिद्धे 'आचारेऽवगल्भ' इति वार्तिकं व्यर्थमित्यत आह / पूर्ववार्तिकन्त्विति // अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः / तर्हि तत्र क्विग्रहणं व्यर्थमित्यत आह / तत्र क्विबनूद्यते इति // तत्सन्नियोगेनानुबन्धासङ्गार्थमित्यर्थः / पदकार्य नेति // राजानतीत्यादौ नलोपादिकनेत्यर्थः / अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः / पररूपमिति // कृष्णशब्दात् क्विबन्ताल्लडादौ शपि 'अतो गुणे' इति पररूपमित्यर्थः / कृष्णाञ्चकार / कृष्णिता / कृष्णिप्यति / कृष्णतु / अकृष्णत् / कृष्णेत् / कृष्णायात् / अतो लोपात्परत्वात् 'अकृत्सार्व' इति दीर्घः / विशेषविहितत्वादतो लोप इत्यन्ये / अ इवेति // अः विष्णुः / स इवेत्यर्थः / अतीति // शपा पररूपम् / असि / अथः / अथ / आमि / आवः / आमः / क्विफ्प्रत्ययान्तत्लाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्कय आह / प्रत्ययग्रहणमपनीयेति // औ / अतुः / उः / इति सिद्धरूपप्रदर्शनम् / तत्र प्रक्रियान्दर्शयति / द्वित्वमिति // णलि 'द्विर्वचनेऽचि' इति लोपस्य निषेध इति भावः / अतो गुणे इति // द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः / अत आदेरिति // नच परत्वानित्यत्वादपवादत्वाच्च ‘अतो गुणे' इत्यस्मात्प्राक् 'अत आदेः' इत्यस्य प्रवृत्तिरिति वाच्यम् / तस्य बहिरङ्गत्वात् / ‘अत आदेः' इत्यस्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात् ‘अत आदेः' इत्यस्य चरितार्थत्वेन बाधकत्वासम्भवात् / “अपवादोऽपि यद्यन्यत्र चरितार्थस्तन्तिरङ्गेण बाध्यते" इत्युक्तेः इत्यन्यत्र विस्तरः / यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्ति / तथापि न्याय्यत्वादेवमुक्तम् / णल औ इति // पररूपे 1. 'अनेकाज्यहणं चुलुम्पाद्यर्थम् ' इतिवत् एकाज्च्यावृत्त्यर्थम् इत्यनुक्त्या प्रत्ययान्तैकाज्भ्योऽप्याम् भवत्येव-इति नागेशसिद्धान्तः / For Private And Personal Use Only