________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 सिद्धान्तकौमुदीसहिता [[नामधातु वाग्रहणात् क्यङपि / अवगल्भादयः पचाद्यजन्ताः / किप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते / तेन तङ् / अवगल्भते / क्लीबते / होडते / भूतपूर्वादप्यनेकाच आम् / एतद्वार्तिकारम्भसामर्थ्यात् / न च अवगल्भते इत्यादिसिद्धिस्तत्फलम् / केवलानामेवाचारेऽपि वृत्तिसम्भवात् / धातूनामनेकार्थत्वात् / अवगल्भाञ्चक्रे / क्लीबाञ्चके / होडाञ्चके / वार्तिकेऽवेत्युपसर्गाविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यडेवेति माधवादयः / ग्रहणात् क्यङपीति // अन्यथा विशेषविहितत्वात् विपा क्यङो बाधः स्यादिति भावः / तथाचात्र वाशब्दो विकल्पार्थक इति फलितम् / अत्र सुप इति नानुवर्तते / प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात् समुच्चीयते इति केचित् / अवगल्भादयः इति // ‘गल्भ धाष्ट्र्ये' (अवपूर्वः) 'क्लीब अधाष्ये' 'होड़ अनादरे' एभ्यः पचाद्यचि अवगल्भादिशब्दास्त्रयो निष्पना इत्यर्थः / तथाच अवगल्भ इवाचरति क्लीब इवाचरति होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विपक्यडाविति स्थितम् / अवगल्भते इत्यात्मनेपदलाभायाह / क्विप्सन्नियोगे. नेति // अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वञ्चात्र प्रतिज्ञायते / ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तत्त्वादात्मनेपदं लभ्यते। तदाह / तेन तङिति // अवगल्भते इति॥ विपि भकारादकारस्य लोपे हलन्ताल्लडादौ तडि शविति भावः / ननु अवगल्भाञ्चके, क्लीबाञ्चक्रे, होडाञ्चक्रे, इत्यत्र कथमाम् / अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेन 'कास्यनेकाच्' इत्यस्याप्रवृत्तेः / नच अवगल्भ इत्यस्य विवन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम् / " उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते” इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह / भूतपूर्वादपीति // विबुत्पत्तेः प्राक्तनमनेकान्त्वं भूत पूर्वगल्या आश्रित्येत्यर्थः / भूतपूर्वगत्याश्रयणे प्रमाणमाह / एतद्वार्तिकेनेति // 'सर्वप्रातिपदिकेभ्यः क्लिव्वा' ति वक्ष्यमाणवार्तिकादेव अवगल्भते अवजगल्भे इत्यादि सिद्धौ पुनरेभ्यः क्विबिधानं तत्सन्नियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थ सद्भूतपूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीत्यर्थः / नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनेपदसिद्धावुपक्षीणत्वात् कथमुक्तज्ञापकतेत्याशङ्कय निराकरोति / न चावगल्भते इत्यादिसिद्धिस्तत्फलमिति // कुत इत्यत आह / केवलानामिति // अच्प्रत्ययविहितानान्धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधा. तूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसम्भवात् / तच्च कुत इत्यत आह / धातूनामनेकार्थत्वादिति // एवञ्च 'आचारेऽवगल्भ' इति विविधानमनबन्धसम्भवाथ सद्भतपूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीति सिद्धम् / नच 'सर्वप्रातिपदिकेभ्यः' इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथन्तस्य उक्तज्ञापकतेति वाच्यम् / 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन विपि तथा प्रयोगे इष्टापत्तेः / भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकस्य अवगल्भादिभ्यः अप्रवृत्तिविज्ञानाद्वेत्यास्तान्तावत् / 'आचारेऽवगल्भ' इत्यत्र अवेत्यस्य प्रयोजनमाह / अवेत्युपसर्गेति // केवलादिति // उपसर्गविहीनादवगल्भशब्दादित्यर्थः / For Private And Personal Use Only