________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 सिद्धान्तकौमुदीसहिता नामधातु ग्रहणमित्युक्तम् / यशस्काम्यति / सर्पिष्काम्यति / मान्ताव्ययेभ्योऽप्ययं स्यादेव / किङ्काम्यति / स्वःकाम्यति / 2664 / उपमानादाचारे / (3-1-10) उपमानात्कर्मणः सुबन्तादाचागर्थे क्यच् स्यात् / पुत्रमिवाचरति पुत्रीयति छालम् / विष्णूयति द्विजम् / 'अधिकरणाच्चेति वक्तव्यम्' (वा 1717) / प्रासादीयति कुट्यां भिक्षुः / कुटीयति प्रासादे / ___ 2665 / कर्तुः क्यङ् सलोपश्च / (3-1-11) उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् , सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् / क्यङ् वेत्युक्तेः पक्षे वाक्यम् / सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः / स च व्यवस्थितः / 'ओजसोऽप्सरसो नित्यमितरेषां यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह / यस्य इतीति // 'यस्य हलः' इत्यत्र यस्येत्यनेन यकाराकारसङ्घातग्रहणमित्यनुपदमेवोक्तमित्यर्थः / तथाच बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्यार्थवत्त्वाद्यकारलोपो निर्बाधः / प्रकृते तु काम्यजेकदेशस्य यस्यानर्थकत्वालोपो नेति भावः / यशस्काम्यतीति // ‘सोऽपदादौ' इति सत्वम्। ननु किमात्मनः इच्छति किकाम्यति स्वःकाम्यतीति कथम् / मान्ताव्ययानां नेत्यनुवृत्तेरित्यत आह / मान्ताव्ययेभ्योऽप्ययमिति // उपमानादाचारे // 'सुप आत्मनः क्यच्' इत्यनुवर्तते / 'धातोः कर्मणस्समानकर्तृकात्' इत्यतो धातोरिति / तदाह / उपमानात्कर्मणः इत्यादिना // उपमानं यत्कर्मकारकं तद्वृत्तेस्सुबन्तादित्यर्थः / पुत्रमिवेति // 'धातोः कर्मणः' इत्यतः वेत्यनुवृत्तिरनेन सूचिता / छात्रं पुत्रत्वेन उपचरतीत्यर्थः / विष्णूयतीति // द्विजं विष्णुत्वेन उपचरतीत्यर्थः / अधिकरणाच्चेति // उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः / प्रासादीयति कुट्यामिति // प्रासाद इव कुटयां हृष्टो वर्तते इत्यर्थः / कुटीयति प्रासादे इति // कुट्यामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः / कर्तुः क्यङ् सलोपश्च // कर्तुरित्यावर्तते / कर्तुः क्यडित्येकं वाक्यम् / अत्र कर्तुरिति पञ्चम्यन्तम् / उपमानादाचारे इत्यनुवर्तते / 'धातोः कर्मणः' इत्यतः वेति च / तदाह / उपमानादिति // उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः / कर्तुः सलोपश्चेति द्वितीयं वाक्यम् / चकारः तुपर्यायः भिन्नक्रमः / स इति लुप्तषष्टीकं पृथक्पदम् / कर्तुरिति षष्ठ्यन्तस्य विशेषणम् / तदन्तविधिः / तदाह / सान्तस्य त्विति // पक्षे इति // क्यडभावपक्षे इत्यर्थः / क्यडभावपक्षे राकारलोप इति भ्रमं वारयति / सान्तस्य लोपस्त्विति // एतच्च महाभाष्ये स्पष्टम् / क्यङि सलोपविकल्पः स्यादित्यत आह / स च व्यवस्थितः इति // सान्तस्य सलोप इत्यर्थः / व्यवस्थामेव दर्शयति / ओजसोऽप्सरसः इति // इदं वार्तिकम् / ओज For Private And Personal Use Only