________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 371 क्यजन्ता निपात्यन्ते / अशनायति / उदन्यति / धनायति / 'बुभुक्षादौ' किम् / अशनीयति / उदकीयति / धनीयति / 2662 / अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि / (7-1-51) एषां क्यचि असुगागम: स्यात् / 'अश्ववृषयोभैथुनेच्छायाम्' (वा 4309) / अश्वस्यति बडबा / वृषस्यति गौः / 'क्षीरलवणयोर्लालसायाम्' (वा 4315) / क्षीरस्यति बालः / लवणस्यत्युष्टः / ' सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' (वा 4616--17) दधिस्यति-दध्यस्यति / मधुस्यतिमध्वस्यति / 2663 / काम्यञ्च / (3-2-4) उक्तविषये काम्यच स्यात् / पुत्रमात्मनः इच्छति पुत्रकाम्यति / इह 'यस्य हलः' (सू 2631) इति लोपो न / अनर्थकत्वात् / यस्य इति सङ्घातत्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः / भोक्तुमिच्छा बुभुक्षा / पातुभिच्छा पिपासा। गर्द्धः अभिकांक्षा / अशनायतीति // अश्यते यत् तदशनम् अन्नं, तद्भोक्तुमिच्छतीत्यर्थः / 'क्यचि च' इति ईत्त्वाभावो निपात्यते / ‘अकृत्सार्व' इति दीर्घः / उदन्यतीति // उदकं पातुमिच्छतीत्यर्थः / उदकशब्दस्य उदन्नादेशो निपात्यते नलोपाभावश्च / धनायतीति // जीवनार्थ सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः / ईत्वाभावो निपात्यते / अशनीयतीति // अशनम् अन्नं तत्सङ्ग्रहीतुमिच्छति / वैश्वदेवादार्थमित्यर्थः / उदकीयतीति // सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः / धनीयतीति // दरिद्रस्सन् जीवनाय धनमिच्छतीत्यर्थः / अश्वक्षीर // क्यचि परे. ऽसुगिति शेषपूरणम् / 'आजसेरसुक्' इत्यतस्तदनुवृत्तेरिति भावः / असुकि ककार इत् उकार उच्चारणार्थः / कित्त्वादन्त्यावयवः / 'अश्ववृषयोः' इति वार्तिकम् / अश्वस्यति बडबेति // मैथुनार्थमश्वमिच्छतीत्यर्थः / वृषस्यति गौरिति // मैथुनार्थं वृषमिच्छतीत्यर्थः / “वृषस्यन्ती तु कामुकी” इति कोशस्तु अश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छामात्रे लाक्षणिकः / 'क्षीरलवणयोः' इति वार्तिकम् / असुगिति शेषः / लालसा उत्कटेच्छा / सर्वप्रातिपदिकानामिति // इदमपि वार्तिकम् / लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः / तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः / न चानेनैव वार्तिकेन सिद्धे 'क्षीरलवणयोलालसायाम्' इति वार्तिकं व्यर्थमिति शङ्कयम् / 'क्षीरलवणयोः' इति वार्तिकं कात्यायनीयम् / 'सर्वप्रातिपदिकानाम्' इति तु मतान्तरमित्यदोषात्। एतच्च भाष्ये अपर आहे. त्यनेन ध्वनितम् / काम्यञ्च // 'सुप आत्मनः क्यच्' इत्युत्तरमिदं सूत्रम् / तदाह / उक्तविषये इति // पुत्रकाम्यतीति // कस्येत्संज्ञा तु न, फलाभावात् / अनर्थकत्वादिति // काम्यचः एकदेशस्य यकारस्य अर्थाभावादित्यर्थः / ननु बेभिदिता इत्यत्रापि For Private And Personal Use Only