________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 सिद्धान्तकौमुदीसहिता [नामधातु दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव / अदस्यति / रीतः' (सू 1234) / कीयति / 'क्यच्च्योश्च' (सू 2119) / गार्गीयति / वात्सीयति / ' अकृत्सार्व-' (सू 2298) इति दीर्घः / कवीयति / वाच्यति / समिध्यति / 2660 / क्यस्य विभाषा / (6-4-50) हल: परयोः क्यच्क्यडोर्लोपो वा स्यादार्धधातुके / 'आदेः परस्य' (सू 44) / ' अतो लोपः' (सू 2308) / तस्य स्थानिवत्त्वाल्लघूपधगुणो न / समिधिता-समिध्यिता / 'मान्तप्रकृतिकसुबन्तादव्ययाच क्यच् न' (वा 1714) / किमिच्छति / इदमिच्छति / स्वरिच्छति / 2661 / अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु / (7-4-34) प्रामादिक एवेति // दीर्घशब्दस्य अव्युत्पन्नप्रादिपदिकत्वान्न धातुत्वम् / दिव्धातोः क्विबन्तात् क्याचि ऊठि धुशब्दाच्च क्याचि द्यूयतीत्येव उचितम् / विचि तु लघूपधगुणे 'लोपो व्योः' इति लोपे देशब्दात् क्याचि देयतीत्येवोचितमिति भावः / अदस्यतीति / अमुमात्मनः इच्छतीत्यर्थे अदस्शब्दात् क्याचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाभावान्न त्यदाद्यत्वम् / सान्तत्वानोत्त्वमत्त्वे / 'नः क्ये' इति नियमेन पदान्तत्वाभावान्न सस्य रुत्वमिति भावः / कर्तृशब्दात् क्यचि विशेषमाह / रीतः इति // गार्ग्यशब्दात् क्यचि विशेषमाह / क्यच्छ्योश्चेति // आपत्यस्य यो यकारस्य लोप इति भावः / कृते एलोपे ‘क्यचि च' इत्यकारस्य ईत्त्वं मत्वा आह / गार्गीयतीति // वात्सीयतीति / वात्स्यशब्दात् क्यचि पूर्ववत् / कविशब्दात् क्यचि विशेषमाह / अकृत्सार्वेति // वाच्यतीति // वाच्शब्दात् क्यचि ‘नः क्ये' इति नियमेन पदत्वाभावान्न कत्वम / 'वचिस्वपि' इति सम्प्रसारणन्त न / धातोः कार्यमच्यमानं धातुविहितप्रत्यये एवेति नियमात् / समिध्यतीति // समिध्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान्न जश्त्वम् / लुटस्तासि इटि समिध्य इता इति स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते / क्यस्य विभाषा // 'यस्य हलः' इत्यतः हल इति पञ्चम्यन्तमनु. वर्तते / 'आर्धधातुके' इत्यधिकृतम् / तदाह / हलः परयोः क्यचक्यङोरिति / क्यष्तु नात्र गृह्यते / 'लोहितडाज्भ्यः क्यध्वचनम्' इति वक्ष्यमाणतया हलन्तात्तदभावात् / अन्तलोपमाशङ्कय आह / आदेः परस्येति // तथाच समिध् अ इता इति स्थिते आह / अतो लोपः इति // तथाच समिध् इता इति स्थिते लघूपधगुणमाशङ्कय आह / तस्य स्थानिवत्त्वादिति // क्यच्सूत्रे 'मान्ताव्ययेभ्यः प्रतिषेधः' इति वार्तिकम् / मान्तेभ्यः अव्ययेभ्यश्च क्यचः प्रतिषेध इत्यर्थे पुत्रमात्मनः इच्छति पुत्रीयतीत्यत्र न स्यात् / पुत्राविच्छतीत्यादावेव स्यात् / मान्तानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् / अतस्तद्वार्तिकं विवृण्वन्नाह / मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच नेति // अशनायोदन्य // अशनाय उदन्य धनाय इत्येषान्द्वन्द्वः / क्यजन्ताः इति // एते For Private And Personal Use Only