________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा / 369 369 2659 / नः क्ये / (1-4-15) क्यचि क्यडिः च नान्तमेव पदं स्यान्नान्यत् / सन्निपातपरिभाषया क्यचो यस्य लोपो न / गव्याञ्चकार / गव्यिता / नाव्याञ्चकार / नाव्यिता / नलोपः / राजीयति / 'प्रत्ययोत्तरपदयोश्च' (सू 1373) / त्वद्यति / मद्यति / 'एकार्थयोः' इत्येव / युष्मद्यति / अस्मद्यति 'हलि च' (सू 354) / गीर्यति / पूर्यति / 'धातोः' इत्येव / नेह / दिवमिच्छति दिव्यति / इह पुरमिच्छति पुर्यतीति माधवोक्तं प्रत्युदाहरणं चिन्त्यम् / पुगिरो: साम्यात् / नः क्ये // नकारादकार उच्चारणार्थः / 'सुप्तिडन्तम्' इत्यतस्सुबन्तं पदमित्यनुवर्तते / सुबन्तं नकारेण विशेष्यते / तदन्तविधिः / नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते / सुबन्तत्वादेव पदत्वे सिद्ध नियमार्थमिदम् / क्यग्रहणेन क्यच्क्यङोर्ग्रहणम् / लोहितादिडाज्भ्यः क्यष् वचनम्' इति वक्ष्यमाणतया हलन्तात् क्यषोऽभावात् / तदाह / क्यचि क्यङि चेत्यादिना // ननु गव्याञ्चकारेत्यत्र आम आर्धधातुकत्वात्तस्मिन् परे वकाराद्धल उत्तरस्य यकारस्य 'यस्य हलः' इति लोप: स्यादित्यत आह / सन्निपातेति // यकारनिमित्तकावादशसम्पनवकारस्य यकारलोपं प्रति निमित्तत्वासम्भवादिति भावः / गव्यितेति // इटि अतो लोपः / राजीयतीत्यत्र आह। नलोपः इति // राजानमिच्छतीत्यर्थे क्यचि राजन् यति इति स्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थः / कृते नलोपे 'क्यचि च' इत्यकारस्य ईत्त्वमिति मत्वा आह / राजीयतीति // नच ईत्त्वे कर्तव्ये नलोपस्यासिद्धत्वं शङ्कयम् / 'नलोपस्सुप्स्वर' इति नियमादित्यलम् / ननु त्वामात्मनः इच्छति मामात्मनः इच्छतीत्यत्र युष्मदस्मद्भयाङ्कयचि धात्ववयवत्वात् सुपो लुकि प्रत्ययलक्षणाभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्याताम् / विभक्तौ परत एव तद्विधानादित्यत आह / प्रत्ययोत्तरपदयोश्चेति // सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः / ननु युष्मानात्मनः इच्छति, अस्मानात्मनः इच्छति, युष्मद्यति, अस्मद्यति, इत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह / एकार्थयो. रित्येवेति // 'प्रत्ययोत्तरपदयोश्च' इत्यत्र 'त्वमावेकवचने' इति सूत्रमनुवृत्तम् / एकवचनशब्दश्च न रूढः किन्तु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्रा / तथाच युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाभावान्न त्वमाविति भावः / गिरमात्मनः इच्छति पुरमात्मनः इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह / हलि चेति // उपधादीर्घ इति शेषः / ननु दिवमिच्छति दिव्यतीत्यत्रापि 'हलि च' इति दीर्घः स्यादित्यत आह / धातोरित्येवेति / 'हलि च' इति सूत्रे 'सिपि धातोः' इत्यतस्तदनुवृत्तेरिति भावः / दिव्यतीति // दिवशब्दः अव्युत्पन्न प्रातिपदिकमिति भावः / इहेति // 'हलि च' इति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः / कुत इत्यत आह / पुर्गिरोः साम्यादिति / 'गृ शब्दे, पृ पालनपूरणयोः' इत्याभ्याङ्किपि 'ऋत इद्धातोः' इति 'उदोष्ठ्यपूर्वस्य' इति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य पुर्शब्दस्य च निष्पत्तेरिति भावः / 47 For Private And Personal Use Only