________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा विशेषवाचित्वात्तदर्थयोरभेदान्वयः / सम्पदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते / कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते / 224 0 / आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य / (1-3-63) आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः / आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् / इह 'पूर्ववत्' इत्यनुवर्त्य वाक्यभेदेन सम्ब यणादिति // एतच भाष्ये स्पष्टम / नन्वनुप्रयुज्यमानानां कृभ्वस्तीनां आम्प्रकृतिभूतानां कथमन्वय इत्यत आह / तेषामित्यारभ्याभेदेनान्वय इत्यन्तन // सामान्यविशेषयो. रभेदान्वयस्य न्याय्यत्वादिति भावः / कृल इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात् / धातूनामनेकार्थत्वात् ज्ञेयम् / ननु कृभ्वस्तियोग इत्यस्य कृो द्वितीयेत्यस्य च सूत्रस्य मध्ये 'अभिविधौ सम्पदा च' इति पठितम / एवञ्च कृअप्रत्याहारे सम्पदोऽपि कुतो न ग्रहणमित्यत आह। सम्पदिस्त्विति / अनन्वितार्थत्वादिति // सिद्धस्य वस्तुनो रूपान्तरापत्तिस्सम्पदेरर्थः / एधादिधातोस्त्वामप्रकृतिभूतस्य वृध्यादिरर्थः / तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाभावेन अभेदान्वयासम्भवादित्यर्थः / अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गगच्छत इति भावः / ननु आमप्रत्ययवदिति कृत्र आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थम / स्वरितत्रित इत्येव तत्सिद्धेरित्याशङ्कयाह / कृभ्वस्तीति / आम्प्रत्ययवदिति // अनुदात्तङित इत्यत आत्मनेपदमित्यनुवर्तते / तत्राम्प्रत्ययस्यात्मनेपदाभावादाह / आम् प्रत्ययो यस्मादित्यतद्गणसंविज्ञानो बहुव्रीहिरिति॥ तस्य अन्यपदार्थस्य गुणा: विशेषणानि वर्तिपदार्थरूपाणि तेषां संविज्ञानं क्रियान्वयितया ज्ञानं न विद्यते यस्य बहुव्रीहेः सः अतद्गणसंविज्ञानः / यथा चित्रगुमानयेति। अत्र हि पुरुषस्यैवान्यपदार्थस्य क्रियान्वयः / न तु चित्राणां गवामपि। तथा च प्रकृते आम प्रत्ययविनिर्मुक्तः आमप्रत्ययप्रकृतिभूतः एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः / आम्प्रत्ययवदिति // तृतीयान्ताद्वतिः / अनुप्रयुज्यत इत्यनुप्रयोगः / कर्मणि घञ् / पञ्चम्यर्थे षष्टी / तदाह / आम् प्रकृत्येत्यादिना // आम्प्रकृतेभुवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात् कृतोऽपि स्यादिति यावत् / अत्र न प्रत्याहारग्रहणम् / अनुप्रयोगस्येत्येव सिद्धे कृग्रहणादिह न प्रत्याहारग्रहणमिति भाष्यम् / परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः / इन्दाञ्चकारेत्यादौ तु परगामिनि क्रियाफलेनानात्मनेपदम् / आम्प्रकृतेः 'इदि परमैश्वर्य' इति धातोरात्मनेपदाभावात् तस्य परस्मैपदित्वात् एतदर्थमेव आम्प्रत्ययवदित्युपात्तम्। नन्विन्दाञ्चकारेत्यादौ मास्त्वनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् / आत्मगामिनि तु क्रियाफले खरितजित इत्यात्मनेपदं दुर्वारम् / अस्य सूत्रस्य एधाञ्चक इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्खाप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले खरितत्रित इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याभावादित्यत आह / इहेति // इह आमप्रत्ययवत् कृमोऽनुप्रयोगस्येति सूत्रे 'पूर्ववत् सनः' इति पूर्वसूत्रात् पूर्ववदित्यनुवर्त्य For Private And Personal Use Only