________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [यङ 2642 / नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् / (7-4-84) एषामभ्यासस्य नीगागमः स्याद्यब्यङ्लुकोः / 'अकित:' इत्युक्तेन दीर्घः / नलोपः / वनीवच्यते / सनीस्रस्यते इत्यादि / 2646 / नुगतोऽनुनासिकान्तस्य / (7-4-85) अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् / नुका अनुस्वारो लक्ष्यते इत्युक्तम्। यय्यम्यते-यंयम्यते। तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न / 'भाम' क्रोधे / बाभाम्यते / 'ये विभाषा' (2319) / जाजायते-जञ्जन्यते / 'हन्तेहिसायां यङि नीभावो वाच्यः' (वा 4621) / जेन्नीयते / 'हिंसायां' किम् / जङ्घन्यते / 2644 / रीगृदुपधस्य च / (7-4-90) ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यब्यङ्लुकोः / वरीवृत्यते / सम्मतत्वात् / वस्तुतस्तु न्याससम्मते तौतादिकस्याप्रवृत्तिरेव फलम् / " लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्” इति लुग्विकरणस्य ग्रहणनिवृत्तिरिति बोध्यम् / नीग्वञ्चु // अभ्यासस्येति // 'अत्र लोपः' इत्यतस्तदनुवृत्तरिति भावः / यङ्लुकोरिति // यडि यङ्लुकि चेत्यर्थः / न दीर्घः इति // रीगागमात्प्राक् प्राप्तोऽभ्यासदी| नेत्यर्थः। भविष्यदपि कित्त्वन्दीर्घप्रतिबन्धकमिति भावः / नलोपः इति // ‘अनिदिताम्' इत्यनेन नकारस्य लोप इत्यर्थः / इत्यादीति // सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कन्द्यते / नुगतोऽनु // अङ्गस्येत्यधिकृतम् / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / ‘गुणो यङ्लुकोः' इत्यतः यङ्लुकोरिति च / तदाह / अनु. नासिकान्तस्येत्यादि // ननु यंयम्यते इत्यत्र नुको नकारस्य अपदान्तत्वादझल्परकत्वाच्च कथं 'नश्च' इत्यनुस्वार इत्यत आह / नुकेति // नन्वभ्यासे ह्रस्वविधानादीर्घस्याभावात् नुग्विधावत इति तपरकरणं व्यर्थमित्यत आह / तपरत्वसामर्थ्यादिति // स्वाभाविक एव यो इस्वः अकारः तस्यैव ग्रहणम् , नतु दीर्घादेशभूतस्य ह्रस्वाकारस्येत्येतदर्थ तपरकरणमिति भावः। बाभाम्यते इति // अत्र आकारस्थानिकस्य ह्रस्वविधिसम्पन्नस्य अकारस्य न नुगिति भावः / जनधातोर्यङि नकारस्य आत्त्वविकल्पं स्मारयति / ये विभाषेति // नी. भावः इति // यद्यपीह ह्रीभावविधावपि 'अभ्यासाच्च' इति कुत्वे हकारस्य घकारः सिद्ध्यति। तथापि प्रयत्नलाघवाभावात् प्रक्रियालाघवाच्च नीति घकारोच्चारणमिति भावः / जेनीयते इति // पुनः पुनरतिशयेन वा हिनस्तीत्यर्थः / अत्र यङीति विषयसप्तमी / यडि विवक्षिते सतीति लभ्यते / तेन द्वित्वस्य परत्वेऽपि प्रागेव नीभाव इति बोध्यम् / जङ्घन्यते इति // गर्हितं गच्छतीत्यर्थः / रीगृदुपधस्य च // अभ्यासस्येति // 'अत्र लोपः' इत्यतः For Private And Personal Use Only