________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / र्धधातुके / ‘आदेः परस्य' (सू 44) / अतो लोपः' (सू 2608) / सोसूचांचक्रे / सोसूचिता / सोसूविता / मोमूत्रिता / ___ 2632 / दीर्घोऽकितः / (7-4-83) अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च / अटाट्यते / 2633 / यङि च / (7-4-30) / अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि यङ्लुकि च / यकारपररेफस्य न द्वित्वनिषेधः / 'अरार्यते' इति भाष्योदाहणात् / अरारिता / अशाशिता / ऊर्णोनूयते / बेभिद्यते / अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः / बेभिदिता / 2634 / नित्यं कौटिल्ये गतौ / (3-1-23) गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे। कुटिलं ब्रजति वाव्रज्यते। आदेः परस्ये ते // 'अलोऽन्त्यस्य ' इत्यस्यायमपवाद इति भावः / अतो लोपः इति // यकाराकारसङ्घाते यकारस्य लोपे सति परिशिष्टस्याकारस्य 'अतो लोपः' इत्यर्थः। ननु मास्तु सङ्घातग्रहणम् / यकारस्यैवान लोपो विधीयताम् / अतो लोपे सति इष्टसिद्धिरिति चेन्न / ईय॒धातोस्तृचि इटि ईयितेत्यत्र यकारलोपनिवृत्त्यर्थत्वादित्यलम् / अटधातोः यङि 'अजादेर्द्वितीयस्य' इति ट्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ अटट्यते इति स्थिते / दीर्घोऽकितः // अभ्यासस्येति // 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः / यङि यङ्लुकि चेति // ‘गुणो यङ्लुकोः' इत्यतस्तदनुवृत्तेरिति भावः / अकित इत्यस्य तु यंयम्यते इत्यादी प्रयोजनं वक्ष्यते / ऋधातोर्यङि कृते ङित्त्वाद्गुणनिषेधे प्राप्ते / यङि च // ‘गुणोऽर्तिसंयोगाद्योः' इति सूत्रमनुवर्तते / 'रीङ् ऋतः' इत्यस्मात् ऋत इति च / तदाह / अतरित्यादि / तथाच ऋ य इति स्थिते ऋकारस्य गुणे अकारे रपरत्वे अर् य इति स्थिते 'न न्द्राः' इति रेफस्य द्वित्वनिषेधे य इत्यस्य द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घ अर्यायते इति प्राप्ते आह / यकारपररेफस्येति॥भाष्योदाहरणादिति // 'धातोरेकाचः' इति सूत्रे इति शेषः। अरारितेति // ' यस्य हलः' इति यकारलोपः / अशाशितेति // अशधातोर्यङि श्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ 'दीर्घोऽकितः' इति दीर्घ 'यस्य हलः' इति यकारलोपः। ऊोनूयते इति // ऊर्ण य इति स्थिते 'नन्द्राः' इति नु इत्यस्य द्वित्वे हलादिशेषे अभ्यासदीर्घः। बेभिद्यते इति // भिद् य इति स्थिते भिद् इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणः / ननु बेभिद्य इति यङन्ताल्लुटि तासि इटि यलोपे अतो लोपे बेभिदितेत्यत्र तासि परे लघूपधगुण: स्यादित्यत आह / अल्लोपस्य स्थानिवत्त्वादिति // नित्यं कौटिल्ये गतौ // नित्यशब्दः एवार्थे / कौटिल्ये इत्यस्योपरि द्रष्टव्यः / 'धातोरेकाचः' इत्यतो यङित्यनुवर्तते / तदाह / गत्यर्थात्कौटिल्य एवेति // गत्यर्थवृत्तेर्धातोः, For Private And Personal Use Only